________________
श्रीस्तोत्रचिन्तामणिः
१८१
स्वाधीनाः सम्पदोऽनेन, ज्वरादिरोगसङ्क्षयः । पूर्वोत्पन्ना विनश्यन्ति, दास्यत्वादि भवन्ति न ॥१०२।। अन्धत्वं जुङ्गितत्वं च, दौर्भाग्यं विकलाङ्गता । काणत्वं वामनत्वं च, न स्यादस्य प्रभावतः ॥१०३।। वन्ध्यत्वं विषकन्यात्वं, वैधव्यं दुष्टरण्डता । मृतवत्सत्वदोषोऽपि, न स्यादस्य प्रभावतः ॥१०४।। प्रेष्यत्वं पिङ्गलत्वं च, मूलतोऽपि प्रणश्यति । भूताद्युपद्रवाभावो, जायते नात्र संशयः ॥१०५।। मुनिसुव्रतनाथस्य, तीर्थे श्रीपालभूपतिः । जातस्तेनेदमाराद्धं, मदनादियुतेन च ॥१०६।। सक्षेपाराधनं पूर्वं, ततो विस्तरतो कृतम् । भक्तिः शक्त्यनुसारेण, जिनाज्ञाऽप्येवमास्थिता ॥१०७।। नववर्षशते पूर्णे, स्वायुषस्तस्य भूपतेः । तद्ध्यानान्नवमे कल्पे, सुरः जातः सुरप्रभः ॥१०८।। एकविंशतिवाायु-स्तत्र भुक्त्वाऽत्र मानवः । पुनस्तत्रैव गत्यैवं, सेत्स्यति नवमे भवे ॥१०९॥ इत्थमेव क्रमो ज्ञेयो, जननीमदनादिषु । न भेदो नवसु ज्ञेयो, नवसंख्याऽप्यनुत्तरा ॥११०॥ गुणितोऽङ्केन केनापि, नवाङ्को नैव भिद्यते । गुण्यसङ्ख्यासमानं यद्, गुणाकाराङ्कमेलनम् ॥१११।। वीरतीर्थे नवाऽऽत्मानः, तीर्थकृन्नामबन्धकाः । गुप्तयो नव शीलस्य, तत्त्वानि निधयो नव ॥११२।। अर्हन् पार्श्वनाथोऽपि, नवहस्तोच्छ्रयोऽभवन् । नव नेमिभवाः प्रोक्ताः, श्रीवीरस्य गणा नव ॥११३।। पारिहारिकसाधूनां, गणोऽपि नवसङ्ख्यकः । न चैकान्तोऽत्र लेशेन, विविधा बोधहेतवः ॥११४।। दुर्लभा धर्मसामग्री, दुर्लभो मानवो भवः । दुर्लभः समयोऽप्यस्य, मन्त्रोऽयमपि दुर्लभः ॥११५।। अद्य मे सफलं जन्म, पावना रसना कृता । समयः सार्थको जातः, सिद्धचक्रस्य साधनात् ॥११६।। सुलभा भोगसामग्री, नियमाद् भवसाधिका । न तथाऽऽराधना चेयं, विश्वविघ्नविदारिणी ॥११७।। धन्यानां पूर्णपुण्यानां, सात्त्विकोत्साहशालिनाम् । जायते निर्मला भक्तिः, सिद्धचक्रस्य साधने ॥११८।।