________________
१७८
श्रीविजयपद्मसूरिविरचितः
शमिनो वर्णतो श्यामाः निरारम्भा गतस्पृहाः । शान्ता दान्ताश्च सद्भावाः, सप्तविंशतिसद्गुणाः ॥५१॥ गुप्ता भ्रमरसंकाशा, नवकल्पविहारिणः । मुनयोऽपि सदा ध्येया आगमादिविचारतः ॥५२॥ करणत्रयसंसिद्धं, पञ्चभेदं च दर्शनम् । पञ्चलिङ्गं सदा श्वेतं, शुभभावात्मकं तथा ॥ ५३ ॥ बह्वाकर्षसंयोगं (?), देवत्वसिद्धताप्रदम् । सद्दर्शनं सदा ध्येय-मागमादिविचारतः ॥५४॥ तत्त्वावबोधरूपं यद्, भूरिभेदसमन्वितम् । करुणासाधनं सिद्धं, कर्तव्यादिविवेचकम् ॥५५॥ मूलं च धर्ममूलस्य, संयमोत्कर्षकारकम् । क्रियायाः करणं नित्यं सर्वत्र पूज्यताप्रदम् ॥५६॥ सत्यक्रमगतं शास्त्रे, जननीहर्षदं परम् । अध्यात्मयोगसम्पन्नं, सत्प्रियं नवनाङ्कुशम् ॥५७॥ मलयासुन्दरी येनै- केनाऽपि धैर्यमाहिता । ध्येयं ज्ञानं तदेवेष्ट-मागमादिविचारतः ॥५८॥ शक्त्याविर्भावकं शुद्धं चितापचयकारकम् । मोहरज्जुलवित्रं च सत्या (परमा) नन्ददायकम् ॥५९॥ मुहूर्तपर्यायेणाऽपि युक्ष(?) वैमानिकाः सुराः । मुक्तोऽपि मरुदेवीवै-वंविधं यस्य वर्णनम् ॥६०॥ क्रमलभ्यं च मान्द्येन, कषायाणामनेकधा । बह्मकर्षयुतं पूज्यो, यतो भिक्षुरपि भवेत् ॥ ६१॥ यल्लीना मुनयो नित्यं वन्द्यन्ते वासवैरपि । श्रद्धादि सफलं येन, प्रवृत्तीतरभावितम् ॥६२॥ मैत्र्यादिभावना अष्टी मातरो यस्य साधनम् । आगमादिविचारेण, ध्येयं चारित्रमन्वहम् ||६३ ॥ तुष्टिर्मूलं श्रुतं स्कन्धो, दमाः शाखाः प्रवालकाः । शीलं चाऽभयपर्णानि पुष्पं स्वर्गसुखं तथा ॥६४॥ फलं मुक्तिसुखं यस्य, कल्पवृक्षनिभं तपः । निदानातीतबोधेन, वर्धनीयं क्षमाम्भसा ॥६५॥ शीलवृक्षोन्नतौ यस्य, साधना मेघसन्निभा । पिधानं तृष्णावदने, यानं स्वर्गापवर्गयोः ॥६६॥ अग्निविघ्नलताध्वंसे, सद्भावाम्बुजभास्करम् । इन्द्रियाश्वरज्जुनिभं लब्धिसिद्धिविधायकम् ॥६७॥
2