________________
श्रीस्तोत्रचिन्तामणिः
१७५
॥ श्रीसिद्धचक्रशतकम् ॥ श्रीसेरीसकतीर्थेशं, नेमिसूरिं गुरुं तथा । वन्दित्वा सिद्धचक्रस्य, शतकं विदधाम्यहम् ॥१॥ सच्चिदानन्दसाम्राज्यं, प्राप्यते यत्प्रभावतः । सिद्धचक्रं तदुल्लासाद्, भव्याः सेवन्तु सत्त्वरम् ॥२॥ अर्हन्तोऽपुनरावृत्ताः, सूरयो वाचका अपि । मुनयो दर्शन-ज्ञाने, चारित्रं निर्मलं तपः ॥३॥ सिद्धचक्रमिति ज्ञेयं, ध्येयं नवपदात्मकम् । आलम्बनं परं प्रोक्तं, मनोनिग्रहसाधनम् ॥४॥ भावप्रतिष्ठितो धर्म, उपदिष्टो जिनेश्वरैः । न जायते शुभो भावः, मनोनिग्रहमन्तरा ।।५।। निर्ममत्वं भवेद् भावात्, शुभात् साम्यं ततोऽपि च । रागादेविजयः साम्यात्, चेतःशुद्धिः ततो भवेत् ॥६।। तयेन्द्रियजयस्तेन, कषायाणां जयो भवेत् । तेनैव भवनाशोऽतो, भावप्राधान्यमिष्यते ॥७॥ एतदेवाऽभिसन्धाया-ऽहंदादीनां विचारणा । विधिना गुणिभिः कार्या, सात्त्विकोल्लाससङ्गतैः ॥८॥ उपाय॑ तीर्थकृन्नाम, विंशतिस्थानसाधनात् । स्वर्गं वा नरकं गत्वा, बद्धायुरनुसारतः ।।९।। पुण्यसम्भारसंयुक्तं, ज्ञानत्रयसमन्वितम् । मानुष्यं येन सम्प्राप्त, पूर्वायु:क्षयतः ततः ॥१०॥ यस्य जन्मनि सञ्जातः, प्रकाशो नरकेष्वपि । आद्ये सूर्यप्रकाशाभः, किञ्चिदूनस्ततः परे ॥११।। तृतीये चन्द्रसंकाशः, किञ्चिदूनश्चतुर्थके । ग्रहाभः पञ्चमे श्वभ्रे, षष्ठे नक्षत्रसन्निभः ॥१२॥ ताराभः सप्तमे श्वभ्रे, ज्ञेयमेवमनुक्रमात् । प्रमोदश्चाऽपि सर्वत्र, पञ्चकल्याणके मतम् ॥१३।। उत्सवो दिक्कुमारीणां, सुरेन्द्राणां सुराचले । अङ्गष्ठामृतपायित्वं, स्तन्यपत्वं न शैशवे ॥१४।। गार्हस्थ्यं भोगकर्माप्त, भुक्त्वा दत्त्वा च वार्षिकम् । ज्ञात्वोचितं क्षणं लब्ध्वा , चारित्रं ज्ञानसंयुतम् ॥१५।। विहृत्योरविहारेण, प्रायो मौनं विधाय च । क्षपकश्रेणिमारुह्य, पराजित्य परीषहान् ॥१६।।