________________
१७४
श्रीविजयपद्मसूरिविरचितः
निक्षेपैरधिकैश्चतुर्भिरपि यन्नोआगमान्योक्तिभिः, मीमांसाध्वगतं क्षयोपशमजं निर्दूषणं क्षायिकम् । भान्वाच्छादकवारिवाहकटसदृष्टान्तगम्यं वरं, लब्धिस्थानमशेषपापदलनं भेदैरनेकैर्युतम् ॥२३॥ माता पुत्रबुधार्यरक्षितमतथ्यज्ञानसान्वितं, भूपायैरपि भूरिसत्कृतमपि प्रानन्दमापैव न । मिथ्याज्ञानमपास्य भीमभववार्धावश्मनौसन्निभं, सत्यज्ञानमभङ्गयत्नविनयाद् ग्राह्यं सुधीभिस्ततः ॥२४॥ नामाद्यैरधिकैश्चतुर्भिरपि यन्नोआगमान्योक्तिभिः, चिन्त्यं सञ्चितकर्मकल्मषचयप्रध्वंसकं श्रीप्रदम् । चित्साध्यं निरुपाधिकस्थिरमहानन्दाश्रयापादकं, विश्वाखण्डलनाकिनामपि महर्डीनां परं दुर्लभम् ॥२५॥ सल्लोकोत्तरवाञ्छितार्थनिवहप्रादेशनप्रत्यलं, कौघक्षयशान्तियुग्मभवनोपायोद्भवं निर्भयम् ।। व्यावृत्तीतररूपमव्ययगुणं मैत्रीचतुष्काञ्चितं, पूज्यैः साधितमर्पितं करुणयाऽन्येभ्यो मुदा भाषितम् ॥२६।। पूर्वं या वरदर्शनाप्तिसमये शेषा बभूव स्थितिः, सा चेत् पल्यपृथक्त्वकेन रहिता तद् देशतः संयमम् । सङ्ख्येयाब्धिविहानिना च लभते तत् संयमं सर्वतः, सङ्ख्यातीतभवान् लभेत प्रथमं चारित्रमष्टौ भवान् ॥२७॥ संक्लेशाध्रुवबाह्यशर्मकलितः सांसारिकार्थव्रज, इत्यालोच्य सुचक्रिणोऽपि सुखदं बभ्रुर्मुदा संयमम् । पूज्यास्तद्भवमुक्तिगामिजिनपा अप्यादधुस्तद्धित-मालस्य परिहाय भव्यचरणं ज्ञात्वैतदङ्गीकुरु ॥२८॥ दुर्भव्या अपि जातिभव्यभविनो भावाल्लभन्ते न यत्, तद्भव्या अपि प्राप्नुवन्ति खलु ये पुण्योदयोत्कर्षिणः । ते धन्याः पुरुषोत्तमाश्च विधिना लब्ध्वाऽपि पारङ्गता, यस्मादाप्तिरिहाऽस्य विश्वसुलभा सत्पालना दुष्करा ॥२९॥ नामाचैरधिकैश्चतभिरपि यन्नोआगमान्योक्तिभि-ध्येयं स्वज्चलनात्महाटकमलव्युच्छेदकं श्रीप्रदम् । काङ्क्षासंवरनिर्निदानपरमज्ञानोत्तमार्थापकं, चक्रयाखण्डलवर्यदेवपदवीसिद्धिप्रदानक्षमम् ॥३०॥ दुष्कर्माणि निकाचितान्यपि लयं प्राप्नोति यत्तो द्रुतं, सामग्रीसहितादपायसमवायोज्जासनं मङ्गलम् । विश्वाश्चर्यकरप्रभावललितं स्वर्गापवर्गों यतः, प्रद्युम्नास्यपिधानमिन्द्रियदमं भद्राम्बुजाहर्मणिम् ॥३१॥ शास्त्रज्ञानप्रकाण्डनाककुसुमब्रह्मप्रवालाञ्चितं, सत्कारुण्यदलेन्द्रियोद्दमनशाखं तोषमूलोद्गतम् । श्रेयोधामफलं प्रभावजनतामेयप्रमोदावह, तन्मन्दारनिभं तपोऽतिशयभृत् पुण्योदयादाप्यते ॥३२॥ चक्रुस्तद्भवमोक्षयायिजिनपा अप्यैतदानन्दतः, ते गण्या न भवा अतोऽपि विधिना तत् साधनीयं त्वया । यावत् षष्टिसहस्रवर्षमतनीत् सा सुन्दरी सत्तप, एवं पाण्डवचन्द्रभूपमदनाश्रीपालभूपादयः ॥३३॥ लब्धीः श्रीगणधारिगौतमविभुर्लेभे विशिष्टास्ततः, स्वर्ग प्राप दृढप्रहारिभयदस्तेनश्चतुर्घातकः । आचाम्लात् तपसो विपत्तिरहितास्ते यादवा जज्ञिरे, स्यन्दिन्याऽथ सनत्कुमारनृपतिश्चक्रे तनुं निर्मलाम् ॥३४॥ ते नागार्जुनपादलिप्तमुनिपश्रीबप्पभट्टादयः, संप्रापुर्विशदस्वभावतपसः सल्लब्धिसिद्धीर्वराः । ज्ञात्वैतद् रसगृद्धिमुन्नतिकरं त्यक्त्वा विधेयं तपो, देहः शोक्ष्यत एव रोगततिना चेत् तेन नो शुष्यते ॥३५।। सद्भाग्याधिगमस्य निर्मलतमश्रीसिद्धचक्रप्रभोः, पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजप्रसादादिदम् । पूर्वोक्तं स्वबलाधरीकृतमहारत्नप्रभावव्रजं, ज्ञात्वा ये बहुमानभक्तिनिरतास्तेभ्यो नमोऽनारतम् ॥३६।। वर्षे बाणनिधाननन्दशशिसंमाने(१९९५) वरे कार्तिके, श्रीमद्गौतमकेवलाप्तिदिवसे श्रीनेमिसूरिक्रमे । पद्मे षट्पदपद्मसूरिरमलश्रीसिद्धचक्रप्रभोः, चक्रे श्रीमति वर्यराजनगरे सत्तत्त्वषट्त्रिंशिकाम् ॥३७||
॥ समाप्ता विजयपद्मसूरिप्रणीता श्रीसिद्धचक्रषट्त्रिंशिका ॥