________________
श्रीस्तोत्रचिन्तामणिः
१७३
चन्द्राग्नि(३१)प्रमितैर्गुणैरुपगतः सच्चित्रधर्मेरपि, दीपोदाहृतिधामशालिविहितस्वार्थस्वभावस्थितिः । सत्यानन्दनिरन्तराज्यनृपतिर्भेदव्युदासायतं, सिद्धीशानमरूपभावविधिना ध्यायन्तु भव्याङ्गिनः ॥७॥ द्रव्याख्याकृतिभावभङ्गविविधानेकप्रकारज्जै-विज्ञेयाहविमर्शभावविसरो यस्याऽस्त्यनेकागमे । आयोपायविचक्षणः स्वपरसिद्धान्तार्थविज्ञानभृत्, सद्भव्योद्धृतिकर्मठ: प्रवचनप्रोद्दामयोगाश्रयः ।।८।। अर्थानां श्रुतगामिनां करुणया सद्वाचनादायकः, पञ्चप्रस्थितिसूरिमन्त्रबहुमानाराधनातत्परः । कायाग्नि(३६)प्रमितैर्गुणैरुपगतः सत्स्मारणाद्युद्यतः, सद्भावातिशयैश्चतुर्भिरसमैः स्थानोक्तिगै राजितः ॥९॥ निस्तन्द्रो जिनशासनावनविधौ स्वर्णाभदेहाकृति- वारातिनिपीडिताङ्गिनिवहोल्लाघत्वकृत् सद्भिषक् । सद्वादीतरवादिवर्गहरिणस्तोमेषुवकोपमो, भावाचार्यवरं करोतु विषयं भक्तेर्मुदा देहिनः! ॥१०॥ निक्षेपैरधिकैश्चतुर्भिरपि यं नोआगमान्योक्तिभिः, शास्त्रज्ञाः परिचिन्तयन्ति नितरां धीसम्पदा राजितः । पञ्चाङ्गाङ्गविभिन्नवित् समुचितान्तेवासिचिद्भूरुहं, नित्यं पल्लवयन् प्रमादविगतः सद्वाचनाम्भोभरैः ॥११॥ मोहाद्यावृतचेतनार्थमनुजेभ्यश्चेतनादायको, शास्त्रे गारुडिकोपमोऽपि गदितो यो वर्यधन्वन्तरिः । दुर्मत्यामययातनानिगडितभव्या(श्रेष्ठा)ङ्गिनां सत्त्वरं, श्रीमच्छास्त्ररसायणेन प्रमुदा सत्सज्जतापादकः ॥१२॥ प्रोद्योताक्षरचन्दनाघतपनस्वेदप्रशान्त्याकरो, दीप्तोऽनुग्रहजीवनेन गणचिन्ताधायको विस्पृहः । चित्सन्तोषितशिष्यसङ्घजनतासद्भावसंवर्धको, मार्गोद्भासनदीपमुज्ज्वलपदं तं स्तौमि श्रीवाचकम् ॥१३।। यः सत्साम्यवराशयः श्रुतधरः क्षान्त्यादिधर्मालयः, श्रद्धादित्रिकसाध्यसाधकसदाचारातरौद्रापहः । शिक्षाधारकतोषशालिनिजभावालीनभद्रङ्करो, निर्मोहापरिणामभूरिपरिणामग्रन्थिमिथ्यामतिः ॥१४|| पञ्चानां पदधारिणां विनयकृज्ज्येष्ठोऽपि पर्यायतः, तत्सद्भावनवन्दनाविधिकरः स्वाध्यायवर्योद्यमी । षट्कायावनमुक्तिदप्रवचनाम्बाराधकोऽनारतं, जैनाज्ञाप्रणयी कषायविकथाशल्यप्रमादापहः ॥१५।। चक्रीन्द्रानधिगम्यरम्यप्रमदो येनाऽऽप्यते त्यागजो, यः कर्ताऽत्यतिवर्धमानपरिणामेनाऽमृतानुष्ठितेः । संवासं विदधाति सद्गुरुकुले गीतार्थनिश्रानुगः, पूज्यं कल्पविहारिणं तमनिशं वन्देऽनगारं मुनिम् ॥१६।। निःशङ्कं वितथं न तीर्थपतिभिः प्रोक्तं स्वरूपं समं, निर्ग्रन्थागम एव वा हितकरः सत्यः परार्थस्ततः । अन्योऽनर्थक इत्यनर्थदलना सद्भावना दर्शनं, नामाद्यैः परिभावनीयमनिशं नोआगमान्योक्तिभिः ॥१७॥ अमितपुण्यमहोदयशालिनः, प्रवरसाधनपञ्चकभाविनः । प्रकृतिसप्तकशान्तिलयोभयाद्, भवति दर्शनलाभ इहाऽमल: ॥१८॥ (द्रुतविलम्बितवृत्तम्) भ्राम्यन् भीमभवे महीध्रतटिनीतत्प्रस्तरन्यायतः, सप्तानां हि यथाप्रवृत्तिकरणादल्पां स्थिति कर्मणाम् । कृत्वा ग्रन्थिमथोच्छिनत्ति करणेनाऽन्येन कश्चिज्जनो, गत्वाऽन्त्यं करणं त्रिपुञ्जविधिमाधायाऽश्नुते दर्शनम् ॥१९॥
(शार्दूल०) सिद्धान्ते तदनेकभेदततिगं प्रोक्तं प्रणीतागमैः, कर्मग्रन्थमतं तदौपशमिकं मिथ्यामतेरादितः ।। श्रीसिद्धान्तमतेन शान्तिलयजं सद्दर्शनं प्राप्यते, वर्यं साधनमस्तदोषविसरं प्रौढद्धिदेवायुषः ॥२०॥ चिन्तारत्ननिभं वरेण्यपददं सल्लक्षणैर्लक्षितं, यद्युक्तोऽधमभिक्षुकोऽप्यधिकतामभ्येति सच्चक्रिणः । यद्धीनोऽधमयाचकादपि मतः श्रीसार्वभौमोऽप्यथ, तत्सद्दर्शनमाभजन्तु गुणिनस्तत्त्वार्थसूत्रोदितम् ॥२१।। भावानामखिलस्वरूपयमलं यत्तोऽङ्गिना ज्ञायते, ज्ञानं तद् द्विविधं परोक्षमपरं प्रत्यक्षमाद्यं तथा । चारित्रैकनिबन्धनं निरुपमा यत्तो वरा लब्धयः, यद्धीना न विपालयन्ति भविनो धर्मप्रदां सत्कृपाम् ।।२२।।