________________
१७२
प्रदक्षिणाया अप्येवं, क्षमाश्रमणकस्य च । सङ्ख्या पूर्ववदेवोक्ता, कायोत्सर्गस्य सैव च ॥५॥ द्विः प्रतिक्रान्तिरर्चा च, त्रिकालं श्रीमदर्हताम् । नव चैत्यवन्दनानि त्रिसन्ध्यं देववन्दनम् ||६|| द्विसहस्रप्रमाणोऽथ, जापो द्विः प्रतिलेखनम् । वर्णानुसारतो कार्य - माचामाम्लाभिधं तपः ॥७॥ श्रीमद्गुर्वाननेनैव, अर्हदादिपदस्य च । श्रुत्वा स्वरूपमानन्दाद् ध्यातव्यं निजमानसे ॥८॥ ध्येयं नवपदध्यानं, सर्वध्येयेषु सुन्दरम् । यत्प्रभावेण नश्यन्ति, सर्वोपद्रवहेतवः ॥९॥ श्रीपालमदनाभ्यां तत्, सिद्धचक्रस्य साधनम् । विहितं बहुमानेन, येन वृद्धिसमृद्धयः ॥१०॥ चैत्रे तथाऽऽश्विने मासे, भो भव्या ! महदादरात् । कुर्वन्त्वाराधनं तस्य, भवन्तु स्थिरताश्रयाः ॥ ११ ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥१२॥
·
श्रीविजयपद्मसूरिविरचितः
॥ श्रीसिद्धचक्रषट्त्रिंशिका ॥
प्रणम्याऽर्हमिति ध्येयं, श्रीगुरुं सम्पदां पदम् ।
सिद्धचक्रं महामन्त्रं, भक्त्या स्तोतुमुपक्रमे ॥१॥ (अनुष्टुब्वृत्तम्) अर्हन्निष्कलसिद्धसूरिगणिपोपाध्यायसत्साधुभिः सम्यग्दर्शनबोधसंयमतपोभिः सिद्धचक्रोद्भवः । श्रीश्रीपालनिदर्शनेन भविभि: पीयूषकर्मोद्यतैः, सम्पल्लब्धिसुसिद्धिदोऽस्तु विधिना मन्त्रः समाराधितः ॥२॥ (शार्दूलविक्रीडितवृत्तम्)
लब्ध्वा क्षायिकदर्शनं शिवपदं कार्याणि पञ्चाऽष्टमे, कृत्वाऽस्मिन् नवमे स्थले च दशमे लोभक्षयं सर्वथा । कृत्वा क्षीणकषायकेऽन्त्यसमये प्रध्वंस्य कर्मत्रयं, प्रादुर्भावितकेवलर्द्धिजिनपो ध्यानान्तरीयस्थितः ||३|| पूज्यश्चेह जघन्यतोऽप्यमरकोट्याऽऽह्लादसम्पूर्णया, युक्तो द्वादशभिर्गुणैरतिशयभ्राजिष्णुपञ्चोपमः । भव्यानां समवसृतौ सरलया वाचोपवेशं दद-दर्हन् केवलदोऽस्तु भव्यभविनां जैनेन्द्रनामोदयी ॥४॥ ते धन्या कृतपुण्यका अपि नराः प्रौढप्रभावोन्नता, वन्दन्ते हरयोऽपि नाकिकलितास्तान् सद्गुणग्राहिणः । सद्ध्यानस्तवनार्चनाद्युदयदं हर्षादवस्थात्रिकं, ध्यात्वाऽर्हत्पदपद्मभक्तिनिरता येऽवञ्चका आदरात् ॥५॥ प्रध्वंस्याऽन्त्यगुणाश्रयद्विचरमे द्वासप्ततिं यः क्षणे, शुक्लेन प्रकृतीरपास्य समये तिस्रो दशश्चाऽन्तिमे । ऋज्वा हेतुचतुष्टयोर्ध्वगतिना प्रापाऽपवर्गश्रियं, (जातः) सत्स्वास्थ्याष्टगुणस्थिरत्वचरणानित्थंस्थसंस्थानकः ||६||