________________
श्रीस्तोत्रचिन्तामणिः
१७१
चङ्गातिशयसंयुक्तं, भ्राजिष्णुं भासुरैर्गुणैः । अर्हन्तं नयनिक्षेपै-ध्येयं तं प्रणिदध्महे ॥२॥ सिद्धं कर्माष्टकापेतं, निष्कलङ्कं निरञ्जनम् । अखण्डानन्दनिर्मग्नं, सिद्धिनाथं नमाम्यहम् ॥३॥ षट्त्रिंशत्सद्गुणोपेतं, सारणादिविधायकम् । पायकं भवभीतानां, वन्दे सूरीश्वरं मुदा ॥४॥ विवेकभृन्मुनीशानां, वाचनादायकं सदा । सदभ्यासविधौ रक्तं, वाचकं समुपास्महे ॥५॥ मूलोत्तरगुणोद्याने, रमन्ते भ्रमरा इव । भावनावासिताः सन्तः, साधवः सन्तु मुक्तये ॥६॥ निःशङ्कं तदसत्यं नो, वचनं यज्जिनोदितम् । एवमध्यवसायो यो, दर्शनं तत् सुखावहम् ॥७|| बोधो जीवादितत्त्वानां, सम्यग्ज्ञानं तदीष्यते । चारित्रं सत्फलं यस्या-ऽनेकभेदमभिष्टवे ॥८॥ त्यागः सावधयोगानां, चारित्रं पञ्चधा श्रुतम् । आराध्यं मुनिभिर्हर्षात्, तद् वन्देऽनन्तशोऽन्वहम् ॥९॥ युक्तं द्वादशभेदेन, कर्मेन्धनहुताशनम् । तपोऽनिदानभावेन, विधेयं भावमङ्गलम् ॥१०॥ नवानां सत्पदानां ये, हृदि ध्यानं वितन्वते । भावपाशविनिर्मुक्तं, ते लभन्ते शिवास्पदम् ॥११॥ गुरुणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । पद्मसूरिर्महोल्लासात्, सिद्धचक्रस्तवं व्यधात् ॥१२॥
॥ श्रीसिद्धचक्रस्तोत्रम् ॥ शलेश्वरपुराधीशं, पाश्र्वं पावोपसेवितम् । नेमिसूरिं गुरुं नत्वा, सिद्धचक्रं स्तवीम्यहम् ॥१॥ (अनुष्टुब्वृत्तम्) मन्त्रं श्रीसिद्धचक्राख्यं, विमलेश्वरपूजितम् । चक्रेश्वरीसुरीध्यातं, ध्यायामि हृदि सर्वदा ॥२॥ द्वादशाऽष्टौ क्रमेणाऽथ, षट्त्रिंशत् पञ्चविंशतिः । सप्तविंशतिरग्रेऽथ, षष्टिः सप्ताधिकैव च ॥३॥ एकपञ्चाशदेवेह, सप्ततिरष्टमे दिने । पञ्चाशत् स्वस्तिकादीनां, मानं ज्ञेयं यथाक्रमम् ॥४॥