________________
१७०
श्रीविजयपद्मसूरिविरचितः
॥ श्रीसिद्धचक्रस्तुतिः ॥
यन्नामस्मृतिमात्रेण, भव्यानां दुरितक्षयः । पूजा यस्य महानन्द-दायिनी विघ्नवारिणी ॥१॥ (अनुष्टुब्वृत्तम्) तस्य श्रीसिद्धचक्रस्य, माहात्म्यं सूक्ष्मधीरपि । वर्णयितुं न शक्तः स्यात्, चित्रानन्तार्थभावतः ॥२॥ सोऽपि साधनसम्पन्नः, यदि नो सबलो भवेत् । प्रभवेयं कथं तत्र, तदाऽहं स्थूलधीषणः ॥३॥ अस्य पूर्णप्रभावेन, श्रीश्रीपालो नराधिपः ।। चक्रे कुष्ठात्ययं प्राप, प्रौढराज्यं जयावहम् ॥४॥ पुण्यं लोकोत्तरं लेभे, पितृव्यमपि स यतः । जिगायाऽल्पेन कालेन, पुण्यं बलवदेव हि ॥५॥ धन्यास्ते लघुकर्माणो, जन्मत्रितयपावनाः । अल्पबन्धा महोत्साहाः, सदोपशमशालिनः ॥६॥ ये चित्तगुप्तिमाधाय, मोक्षलाभेऽप्यनीच्छवः । अमृतानुष्ठितिप्रीता, भीता कर्मानुबन्धतः ॥७॥ समेता द्रव्यसामग्या, साम्यरङ्गतरङ्गिणः । वर्यवैराग्यसद्भावा, निशान्ता योगनिश्चलाः ॥८॥ कुर्वते तस्य मन्त्रस्या-ऽऽराधनां भावसाधनाम् । अपूर्वाह्लादतो त्यक्त्वा, निदानांशं च सर्वत: ॥९॥ आस्कन्दन्ति पराभूति, गदादिभ्यो न ते नराः । लभन्ते विजयं नित्यं, यश:कीर्तिमहाबलम् ॥१०॥ इत्यालोच्य मुदा कुर्वे-ऽहमपि ध्यानसंस्तुतिम् । कुरु वासं प्रभो! चित्ते, तेन मे विशदेऽमदे ॥११॥ यन्न जातं भवद्भक्त्या, तन्न केनापि जायते । इति निश्चयसम्पन्नः, त्वद्भिन्नं न स्मराम्यपि ॥१२।। गुरूणां नेमिसूरीणां, प्रज्ञांशोऽयं प्रसादतः । पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुति व्यधात् ॥१३॥
॥ श्रीसिद्धचक्राष्टकम् ॥ ध्यात्वा श्रीपार्श्वनाथस्य, पदद्वन्द्वं हितप्रदम् । नत्वा श्रीनेमिसूरीशं, सिद्धचक्रमभिष्टुवे ॥१॥ (अनुष्टुब्वृत्तम्)