________________
श्रीस्तोत्रचिन्तामणि:
॥ ७. श्रीमहावीरस्तोत्रे ॥
॥ श्रीमहावीराष्टकम् ॥
१६७
श्रीवामेयं जनादेयं, प्रणम्य स्वगुरुं तथा ।
संस्तुवे श्रीमहावीरं, समासन्नोपकारिणम् ||१|| (अनुष्टुब्वृत्तम्)
लब्धा भूरिगुणाः प्रभोऽत्र मयका संप्राप्य ते शासनं, तेन त्वं परमोपकारिपरमश्चित्ते मया निश्चितः । दुर्वार्य प्रसृतिः सुभक्तिरमलाऽऽविर्भाविता सङ्गता, सबुद्ध्या रहितोऽपि सत्स्तुतिमहं कुर्वे तया प्रेरितः ||२|| (शार्दूलविक्रीडितम्)
यद्वन्मेघघटाः प्रयान्ति विलयं वायोर्महावेगतः, दुष्कर्माणि लयं प्रयान्ति भविनां नाम्नस्तथा ते स्मृतेः । पूज्यानामपि पूज्य ! शासनपते ! श्रीवीरनाथ ! प्रभो !, ते सद्दर्शनमन्तरेण रुचिरं मन्येऽत्र नाऽहं परम् ॥३॥ ते वर्यार्थगतामशेषगुणगां सर्वाङ्गिबोधप्रदां, सत्सौख्यातिशयैर्युतां च वियुतां दोषैः प्रभा ! देशनाम् । ये शृण्वन्ति वरादरेण विमलज्योतिर्भृतोऽसुभृतो, धन्यास्ते सफलोद्भवादिविधयो लोकोत्तरार्थश्रिताः ॥४॥ भानोर्भानुततेर्यथा क्षितितले विस्तारणात् किं भवेद्, गाढाऽपीह तमः स्थितिर्विकृतिदा प्राज्ञेतरार्हाङ्गिनाम् । अज्ञानात्मतमस्तथेह मलिनां सच्चेतनां व्यादधत् किं स्थानं लभते दिनाधिपनि भावात् त्वयि प्रेक्षिते ॥५॥ हंसो यद्यपि हन्ति रश्मिबलतो बाह्यान्धकारस्थितिं, शक्तो नो तदपि प्रभुर्दलयितुं नाऽन्तस्तमिस्रोत्करम् । हेलाप्रोज्झितसर्वदोषवितते ! बाह्यान्तरस्थं तमो, निर्मूलं प्रतिहंसि सर्वमिति नो पूषोपमस्त्वं प्रभुः ||६|| भेदाभेदमयेऽपि वस्तुनि गताभेदं यदा वादिनो, नित्यानित्यमयेऽपि वस्तुनिचये ध्रौव्यं गतास्ते यदा । दृष्टान्तं गुडनागरस्य गदितं ते श्रीश्रुतोक्तेस्तदा, नम्राः शुश्रुवुरापुरप्यनुपमं हर्षं नयौघश्रिताः ॥७॥ किं कल्याणमवाप्नुवन्ति नहि ते सन्न्याय्यमार्गानुगा, नो किन्तु प्रभवेदुपास्तिनिरतास्ते मार्गबोधं विना । सत्पुण्यं करुणा तपोऽतिविमलं निर्यामकत्वान्वितं धैर्यं धर्मकथित्वमेतदिह ते ज्ञात्वा भवेयुस्तथा ॥८॥ श्रीतीर्थङ्करनामबन्धसमये याऽऽसीद् वरा भावना, लब्धा भावनया तयैव विशदा सा साध्यसिद्धिस्त्वया । सत्संस्कारवती क्रिया न विफला तेनैतदज्ञासिषं, सर्वे दार्शनिका न यस्य विषयेऽङ्गीकुर्वते भिन्नताम् ॥९॥ सोऽहं शासनतीर्थभक्तिरसिको निर्धीषणो निर्गुणी, त्वत्पादाम्बुजसंश्रितोऽपि निरतो लब्धोपकारस्मृतौ । कर्तव्योऽस्य कृपां विधाय विधिनोद्धारो ममाऽतो विभो !, नोपेक्षां शरणागतस्य गुरवो भव्या यतो कुर्वते ॥१०॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । पद्मसूरिश्चकारेदं, श्रीमद्वीराष्टकं मुदा ॥ ११ ॥
+