________________
१६८
श्रीविजयपद्मसूरिविरचितः
॥ श्रीजीवत्स्वामि- महावीरस्तोत्रम् ॥
सिद्धचक्रं मुदा नत्वा, नेमिसूरीश्वरं गुरुम् । श्रीजीवत्स्वामिनः स्तोत्रं करिष्ये भक्तिभावतः ||१|| (अनुष्टुब्वृत्तम्) जगद्बन्धुं जिनाधीशं प्रमोदान्नाकिभिः स्तुतम् । सच्चिदानन्दनिर्लीनं, श्रीवीरस्वामिनं स्तुवे ॥२॥ श्रमणं सात्त्विकं धीरं, नीरं मोहाग्निशान्तये । कलितं कान्तबोधेन, वन्देऽहं शान्तिदाननम् ॥३॥ यस्य भक्तिप्रभावेण विलयं यान्ति सत्वरम् । दीर्घस्थितीनि कर्माणि निष्फलोपासना न हि ॥४॥ यदीयं शासनं लब्ध्वा ऽद्यापि भव्याः प्रमोदिनः । विधायाऽऽराधनां शक्त्या, लभन्ते लाभमीप्सितम् ॥५॥ तं श्रीवीरं नरा भव्याः स्थिता मधुमतीपुरे । पश्यन्ति परया भक्त्या, पूजयन्ति स्तुवन्ति च ॥६॥ प्रातरुत्थाय नाथाऽहं भावयामि निरन्तरम् । शासनं ते विमुच्याऽन्य-न्न याचेऽत्र भवान्तरे ||७|| रागोऽपि शासनस्येह, सर्वकामितदायकः । आराधना कथं न स्यात् भववारिधिपारदा ॥८॥ जय त्वं जगदालम्ब ! जगदुद्धारतत्पर ! | परमात्मा श्रियोपेत !, निष्कलङ्कस्वरूपतः ॥९॥ लब्ध्वा पुण्योदयेनाऽद्य दर्शनं वीरनाथ ते । दूरीकृता मया पीडाः सर्वाश्चित्तशरीरयोः ॥१०॥ भवन्तु भद्रकार्याणि श्रीवीरस्य प्रसादतः । श्रीस मङ्गलं भूया देवं मधुमतीस्थले ॥११॥ यदर्जितं मया पुण्य - मेतत्स्तोत्रविधानतः । तेन पुण्येन श्रीस, भूयान्मङ्गलविस्तरः ॥ १२॥ गुरूणां नेमिसूरीणां पूज्यानां सत्प्रसादतः । पद्मसूरिर्महोल्लासा- महावीरस्तुतिं व्यधात् ॥१३॥
80+02