________________
१६६
श्रीविजयपद्मसूरिविरचितः
स्वाधीनं प्रतिकारहीनमुपमातीतं सदा निर्भयं, सौख्यं तद्विपरीतभावकलितं सांसारिकं चञ्चलम् । तद् याचे न कदापि शाश्वतसुखं हे नाथ! तद् दीयतां, यच्छुद्धं च निरञ्जनं न पुनरावृत्यन्वितं क्षायिकम् ॥८॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । स्तोत्रं शोश्वरेशस्य, पद्मसूरिय॑धान्मुदा ॥१०॥
॥ श्रीशङ्केश्वरपार्श्वनाथस्तोत्रम् ॥
शश्वद्भावविशिष्टमोदकलिता याऽसङ्गतामागता, सत्स्वास्थ्यानुभवेष्टभावचरणैकाङ्गीयरूपान्विता । चिन्तारत्नमिव प्रसादविकलाऽपीष्टार्थसार्थप्रदा, श्रीशङ्केश्वरपार्श्वमूर्तिरनिशं साऽस्मत्समाधिप्रदा ॥१॥ सद्भाग्योन्नतिरद्य देव! समभूत् संसर्गसंहारिणी, मालिन्यं मनसो ननाश नितरां स्वामिस्त्वदादर्शतः । वर्यानन्दतरङ्गलोललहरी चित्ते ममाऽऽविष्कृता, नाऽस्मिन् पौद्गलिके रतिं वितनुते भावेऽङ्गययं सर्वतः ।।२।। संसृत्यब्धिनिमग्नतारक! विभो ! ते विस्मृतः किं जनः, सद्भावान्वितकिङ्करस्य च विलम्बस्तारणे यत् कृतः । युक्तं तन्न भवादृशां विगतसज्ज्ञाने प्रभो! प्राणिनि, कान्तारे मृगसूनुवद् विनिहितो भीमेऽहमेकोऽत्र किम् ॥३॥ मीनोऽसून् विजहेद् यथा विचलितान् वार्यन्तरेणाऽऽशु च, नश्याम्याश्रितिमन्तरेण च तथा ते नाथ ! विक्षेपगः । मामुत्तार्य भवाटवीं कुरु कृपां कृत्वा प्रभो ! निर्भयं, मुक्तिर्मे च तथा यथाऽब्जनिकरोद्भासोऽहरीशांशुना ॥४॥ अस्मै प्रार्थयते शिवं च तदपि त्वं यद् ददातीति न, दोषः किं हतकालकर्मनिजकस्योताऽत्र मे नाऽर्हता। सद्भक्तिस्त्वयि नेति किं भुवनप! प्रेमापकर्षो यतो, भद्रं किं न वदाऽर्हदीश ! करुणाब्धे ! तारय त्वं च माम् ॥५॥ दृष्टे मे न रतिजिन ! क्षणमपि त्वय्यासितुं संसृतौ, कुर्वे क्लिश्यति किन्तु कि जिनप ! मां मोहाद्यमित्रव्रजः । येनैमीश! तवाऽन्तिके च करुणां कृत्वैनमावारय, त्वं निस्सीमकृपालुरिष्टफलदस्तेऽहं कृपाभाजनम् ॥६॥
गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । शकेश्वरविभुस्तोत्रं, पद्मसूरिय॑धान्मुदा ॥७॥