________________
श्रीस्तोत्रचिन्तामणिः
१६५
॥ श्रीकार्पटहेटकतीर्थमण्डन-स्वयम्भूपार्श्वनाथस्तोत्रम् ॥ विमलकेवलचिद्वरभूषितो, सकलकर्मलयाप्तमहोदयः । विषमवृत्तिविलासपराङ्मुखो-ऽमितविशिष्टगुणव्रजशोभितः ॥१।। (द्रुतविलम्बितवृत्तम्) भविमनोऽब्जविकासनभास्करः, सकलसङ्कटकाष्ठभरानलः । जिनवरेण्यभुजङ्गफणाञ्चितो-ऽगणितशर्मदमुक्तिनिकेतनः ॥२।। भवकरालपयोनिधिनौनिभः, समसमीहितदानसुरद्रुमः ।।
मरुविभूषणकार्पटहेटके, मम स पार्श्वजिनोऽस्तु सदा मुदे ॥३॥ सद्बोधास्पदतीर्थनाथसुरवारेज्यक्रमेन्दीवरो, भव्यप्राणिकलापदिव्यगुणसंपत्त्यागसंप्रत्यलः । भावव्याधिनिदानसर्वदुरितप्रोत्कर्षनिर्णाशको, श्रीमत्कार्पटहेटकस्थजिनप: पाश्र्वोऽस्तु मे श्रेयसे ||४||
(शार्दूलविक्रीडितवृत्तम्)
॥ श्रीस्वयम्भूपार्श्वनाथस्तुतिः ॥
॥ इयं स्तुतिर्देववन्दनकायोत्सर्गचतुष्टये गीयते ॥ इडे कार्पटहेटकस्थजिनप-श्रीपार्श्वनाथं मुदा, विश्वार्हन्त इहाऽऽशु पान्तु भविनो रागादिरिप्वर्दितान् । भूयान्नः शिवदो जिनेन्द्रसमयः सार्वीयचङ्गोक्तिगो, देवाः शासनपालका मयि मुदा सन्तु प्रसन्नाः सदा ॥१॥
॥ श्री शङ्केश्वरपार्श्वनाथाष्टकम् ॥
वन्दित्वा शासनाधीशं, श्रीवीरं स्वगुरुं तथा ।
तं श्रीशङ्गेश्वरं पावं, संस्तुवे भक्तिभावतः ॥१॥ (अनुष्टब्वृत्तम्) दिव्यज्ञानयुताय दिव्यपरमस्वर्गाम्बुजाभ्राजिने, सल्लोकोत्तरपुण्यसञ्चयवते मुद्दायिने श्वभ्रिणाम् । सन्मेरौ परिपूजिताय ससुरैरिन्द्रैर्महोल्लासतः, श्रीशङ्केश्वरपार्श्वतीर्थपतये तस्मै नमोऽनारतम् ॥२॥ पार्श्वस्तीर्थपतिर्वरातिशयभृत् पाश्र्वं नतोऽहं मुदा, पार्वेणोरगरक्षणं च विहितं पाश्र्वाय सम्यङ्नमः । पार्वादाप्तवरः परो न सुयशः पार्श्वस्य लोकोत्तरं, श्रीपार्वेऽचलधैर्यलब्धिरथ मे श्रीपार्श्व ! रक्षां कुरु ॥३।। बाह्यं तुच्छमनित्यभावकलितं राज्यादिकं वैभवं, त्यक्त्वाऽऽदायि यदा त्वयेश! परमा दीक्षाङ्गनाभिस्तदा । वृद्धाभिः चरणानुकूलरसिका वाचः प्रयुक्ता वराः, स्वाशक्तावनुमोदना प्रतिदिनं कार्येति ता बोधदाः ॥४॥ शुक्लार्धेन विनाश्य घातिगहनं ध्यानान्तरीयं क्षणं, संप्राप्याऽऽवरणप्रणाशसमये त्वं निश्चयाकूततः । ज्ञानं सद्व्यवहारतोऽथ समये लब्ध्वा सयोग्यादिमे, अज्ञासीदखिलार्थसार्थसकलोत्पत्त्यादिभावान् मुदा ॥५॥ वृत्तीस्तामसराजसीश्च भविनां सद्देशनायोगतो, दूरीकर्तुमुपायसार्थमुपदाध्वानमीष्टार्थदम् ।। कृत्वा सात्त्विकमार्गरक्तभविकानन्तर्मुहूर्तेऽन्तिमे, शैलेशीकरणं विधाय विशदं स्वाभाविकानन्ददम् ॥६॥ मूलोद्घातकशेषकर्मविरहान्मुक्त्यङ्गनासङ्गमं, लेभे सौख्यमनुत्तरं प्रकृतिजं यत् साद्यनन्तस्थितिम् । मन्यन्ते परवादिनोऽथ परमानन्दात्मकं शब्दतः, पार्यन्तेऽपि न वक्तुमर्थबहुलात् तद् विश्वदर्शीश्वरैः ॥७॥