________________
१६४
श्रीविजयपद्मसूरिविरचितः
स्वामिन् ! तान् विनिवारयाऽऽन्तररिपून् कारुण्यमाधाय मे, येनाऽऽयामि तवान्तिकेऽहममदोऽनन्तोल्लसद्वीर्यवान् । स्वाधीनोऽस्ति भवोऽपि धीर ! तव चाऽऽयत्तं भवोत्तारणं, निस्तारे च विधीयतेऽत्र विफलः क्षेपः किमेवं स्थिते ॥१९॥ एवं चाऽनवसानप्रौढगुणसम्भारेश ! पार्श्वप्रभो !, सोऽयं ते स्तवने वदिष्यति कियन्मन्दावबोधो नरः । देवं त्वां तव वर्यशासनमहं श्रीनेमिसूरिं गुरुं याचित्वेति भवे भवेऽथ विरमे यावन्न मुक्तिर्मम ॥२०॥ श्रीमद्वीरपरम्पराध्वविदिते गच्छे तपानामनि, पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजप्रसादान्मया (दात् शिशुः) । संवद्वाणनवाङ्कचन्द्र(१९९५) गतवैशाखे तृतीयातिथौ, स्तोत्रं पार्श्वविभोश्चकार विशदं श्रीपद्मसूरीष्टदम् ॥२१॥
॥ श्रीसेरीसापार्श्वनाथाष्टकम् ॥
स्मृतेर्नाम्नो यस्य प्रभवति महासिद्धिरखिला, प्रभावाढ्या मूर्त्तिः प्रशमविशदास्तिक्यफलदा । सदाऽर्च्या देवेन्द्रैर्नरपतिभिरानन्दनिवहैः स्तुवे श्रीसेरीसापतिमहमनन्तार्थकलितम् ||१|| (शिखरिणीवृत्तम्) वरेण्यलक्षणाञ्चितेष्टवाग्गुणालिभूषितं, विशुद्धबोधमालिनं प्रशस्तवर्णभासुरम् ।
भवाब्धिपारदायिनं परोपलक्ष्यभावनं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ||२|| (पञ्चचामरवृत्तम्) गुणालयक्रमाप्तदर्शनादिमुक्तिसाधनं, सुदृष्टिभावभावितं सुनिश्चितार्थदेशकम् । समीष्टदानकल्पपादपं मनोमलापहं भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ||३|| सदष्टप्रातिहार्यशोभितातिशायिसद्गुणं, समस्तविघ्नवारकं सुसम्पदालिधारकम् । दयासुधर्मदाननीरसात्त्विकप्रमोददं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ||४|| समानसं समानमिज्यपाददिव्यदर्शनं, विशिष्टभावनाबलाप्ततीर्थकृत्त्वसम्पदम् । चरित्रसाद्यनन्तभङ्गसिद्धिसौधसङ्गतं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥५॥ विवर्णवर्यमध्यमोरुवैखरीवचोगतं, विदेहजीवनं परात्मभावसम्पदं गतम् । विपत्तिदानवीरमोहवार्धिमग्नतारकं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ||६|| विनष्टदोषसन्ततिं चिताष्टकर्मशोधकं जगत्स्वरूपभासकं समोपसर्गवारकम् । विनाथनाथलोकबन्धुदेशनोपकारकं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥७॥ अहं तवाऽस्मि किङ्करो मम त्वमेकनायकः, न भास्करादृते यमीश ! वारिजौघबोधनम् । यथा तथा त्वयाऽन्तरा ममाऽपि निर्वृतिः कथं ?, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥८॥ जगद्गुरौ विलोकिते त्वयि प्रमोददायके, चलं मनः स्थिरं भवेत् किमत्र संशयास्पदम् । स्वभावसिद्धिलाभदो भवेशपार्श्व ! सर्वदा, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥९॥
॥ प्रशस्तिश्लोकद्वयम् ॥
इत्थं गीतगुणावलिर्विजयते सेरीसकस्थप्रभुः, स्तोत्रं मङ्गलसिद्धिवृद्धिकरणं भव्याः पठन्तु प्रगे । पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजानुभावाद् वरे, धोलेराभिधबन्दरे प्रविदिते प्राचीनतासुन्दरे ॥१॥ (शार्दूलविक्रीडितवृत्तम्) नन्दद्वीपनिधीन्दुमानप्रमिते(१९७९) संवत्सरे वैक्रमे, धन्ये पावनमार्गशीर्षप्रथमाहन्येकभक्त्या मया । विज्ञप्त्या विजयोत्तरस्य शमिनोऽर्हद्भक्तवाचस्पतेः, ध्येयार्हत्पदपद्म[भृङ्ग]गणिना पार्श्वाष्टकं निर्मितम् ॥२॥ (युग्मम्)