________________
श्रीस्तोत्रचिन्तामणिः
१६३
चित्रार्ह विदुषां विधेयमिह मे यद्यप्यबुद्धेरपि, नाऽशक्यं महनीयभक्तिवशतो मन्ये तथापीप्सितम् । प्रायासश्च शुभे यथार्हमखिले कार्यः सदा सिद्ध्ये, आलोच्येत्युचितं स्वचेतसि मुदाऽहं संप्रवर्तेऽत्र च ॥२॥ अन्याभाजनशिष्टसंस्थविदिताचाराप्तसन्माननं, भव्यानां हितकाङ्क्षयोन्नतिकरं मागं दिशन्तं प्रभुम् । संसृत्यागतिबीजसार्थविकलं स्वाभाविकाब्जालयं, भव्याम्भोजविकासनेनमखिलाप्ताधीशपाश्र्वं स्तुवे ॥३॥ भाग्याभावबलान्न याथ विभवो! यूयं ममाऽक्ष्णोः पथं, मूतिः साऽऽत्मिकहर्षदा तदपि वो मादृग्जनोद्धारिणी। या नीचैःकृतकामकुम्भसुरशाख्याद्योपमा मुक्तिदा, ये तां नाऽत्र विलोकयन्त्यपि वराकास्ते कृपार्हा मम ॥४॥ ध्यात्वा त्वां परिणाशितान्तररिपुं भावाम्बुजाल्याश्रयं, नाऽन्यत्र व्रजति प्रकोपविरहं चेतश्चलं मेऽधुना । त्वद्ध्यानं दुरितापहं शिवलताकन्दं तदा भासते, चेतश्चेतयतेऽनिशं मम मतं तच्चारु संपद्यताम् ॥५॥ भक्ति भावभराद् विधाय विशदां भ्राजिष्णुनाकीश्वराः, तेऽकामस्य निजर्द्धिमोहविकला धन्याः पवित्राशयाः । मत्वा तं समयं महोदयमयं तां कामयांचक्रिरे, तत् सत्यं हि सुधां विहाय जलधेर्नीरं क इच्छेन्नरः ॥६॥ सत्यानन्दजगद्गुरो! जिनपते! गीर्वाणपूज्यक्रम !, विज्ञाताखिलभावसार! खदमिन् ! तुभ्यं नमस्ते नमः । साफल्यं समभूत् नोरिह ममाऽद्येत्थं तवोपास्तितः, शस्यं तत्र विनश्वरं च सकलं वित्तादिसार्थं तथा ॥७॥ संप्राप्याऽवसरं निजात्महितगाः संविग्नभव्या जना, धर्माराधनसारमानुषभवं लक्ष्मी तथा चञ्चलाम् । मत्वाऽर्चाविनियोगहष्टकरणाः त्वां पूजयित्वाऽऽदरात्, प्रीते रङ्गतरङ्गसङ्गकलितास्तन्वन्ति सद्भावनाम् ॥८॥ संसाराम्बुधिमग्नतारक! विभो! किं विस्मृतस्ते जनः, सद्भावान्वितकिङ्करस्य विहितो लोकत्रयानन्दन ! । येन ख्यातदयालुनोद्धतिविधावर्हन् ! विलम्बस्त्वया, युक्तं तन्न भवादृशां शरणमेवाऽऽप्ते विधातुं जने ॥९॥ मां यूयं न च तारयिष्यथ तदाऽन्ये तारका सन्ति के, लोभान्धा अपरेऽङ्गनारतरता लब्धा पराधीनताम् । केचिच्छत्रुविघातनेऽतिनिपुणाश्चापादियुक्तास्तथा, प्रोक्तादेकमपि प्रमोदहरणं युष्मासु नो वीक्ष्यते ॥१०॥ संपद्येत यथा तडागकमलोल्लासो न सूर्यं विना, अन्ये नो वितरन्ति शुद्धसमयस्याऽर्थं न सूरिं विना । दत्ते वाचकमन्तरेण न परे सूत्रस्य सद्वाचनां, नो मे विश्वनिरीहयोगिपरमं सिद्धिस्तथा त्वां विना ॥११॥ दोषोऽयं किमु कर्मणां किमथवा कालस्य मेऽभव्यता, सद्भक्तिस्त्वयि तादृशी न भुवनालङ्कार ! किंवाऽचला । लीलानिर्दलितोद्धताहिततते ! गाम्भीर्यवीर्यान्वित !, यन्नाऽद्यापि करोषि नाथ ! सफलां त्वं प्रार्थनां मत्कृताम् ॥१२॥ जानीथ स्फुटमेव नाऽन्यशरणं त्यक्त्वा मम त्वां प्रभो !, त्वं माता च पिता त्वमेव सुगुरुस्त्वं मेऽधिपो जीवितम् । बन्धुस्त्वं दुरितावको यतिपते ! कल्याणमित्रं तथा, ध्येयस्त्वं रिपुजापकस्त्वमनिशं पूज्योऽपि निस्तारकः ॥१३।। भूमौ मीन इव म्रियेऽवगणितो दीनस्त्वयाऽऽशाहतः, विश्वत्राणविधायक! त्वमधुना त्रायस्व कृत्वा कृपाम् । चित्तं मेऽब्जनिभं त्वयीश! तरणौ दृष्टे महानन्ददे, प्राप्नोत्याशु विकासमर्हपरिणामौघं समासादयत् ॥१४॥ बी कृष्णघटाकुलाभ्रनिचयान् दृष्ट्वा यथा मोदते, वीक्ष्याऽनुष्णरुचिं प्रपूर्णकिरणं लोके चकोरो यथा । मच्चेतो विशदाननं ननु तथा त्वां तथ्यमोदावहं, मूर्योऽयं मुखरो जनोऽत्र भवतीक्षित्वा प्रमोदान्वितः ॥१५॥ नाथाऽयुक्तिगभाषिणं न जिनपोपेक्षध्वमेनं जडं, मत्त्वोत्तानधियो हि यूयमधिपा नम्र बुधा वत्सलाः । आज्ञां तव मेऽपि किं विमलसद्वृत्ते विकल्पो विभो !, येनैवं गदतो न चापि विबुधान्तःस्थोत्तरं दीयते ॥१६।। सूनुः किं न करोत्यलीकमुखरोऽपीशाऽऽलजालं पठन्, तातं विस्तृतबोधवर्य ! नितरां नन्दातिरेकाकुलम् । जल्पाकोऽनुचिताभिलापनिकरैः किं ते जनोऽयं तथा, तोषं वर्धयते नवेति करुणामाधाय संकथ्यताम् ॥१७॥ संसारान्तमुपागते त्वयि महाभागासितुं वीक्षित, आसक्तिः क्षणमेकमप्यप्रशमे संपद्यते नो भवे । किं त्रातर्करवाणि किन्तु रिपवो मां संरुणद्ध्यान्तरा, मोहद्वेषरतिप्रहास्यमदनक्रोधप्रपञ्चादयः ॥१८।।