________________
१६२
श्रीविजयपद्मसूरिविरचितः
सज्जं सोऽरि जिगायाऽतः, श्रीशङ्केश्वरनामतः । पुरं संवासयामास, पार्श्वबिम्बं च मन्दिरे ॥६२।। उल्लासात् स्थापितं तेन, तत् प्रसिद्धं पुराख्यया । ऐतिहासिकग्रन्थेभ्यः, सगृह्येदं प्रकीर्त्तितम् ॥६३।। उपदेशसप्ततिका-ग्रन्थे चैवं निरीक्ष्यते । अस्यादियिते नैव, इत्थमप्यपरे जगुः ॥६४॥ श्रीकुन्थुनाथतीर्थेश-वारके मम्मणाभिधः । श्रेष्ठी पप्रच्छ विश्वेशं, कदा लप्स्ये शिवास्पदम् ॥६५।। उवाचाऽर्हन् महाभाग !, सत्तीर्थे त्वमनागते । श्रीपार्श्वनाथदेवस्य, मुक्ति प्राप्स्यसि निश्चयात् ॥६६।। एवमाकर्ण्य हर्षेण, कारितं तेन तत्प्रभोः । न्यायोपात्तार्थजातेन, बिम्बं वाञ्छितदायकम् ॥६७|| जय त्वं स्तम्भनाधीश!, प्रातिहार्यविभूषित! । निजानन्दरमारक्त!, विश्वबन्धो ! जिनेश्वर ! ॥६८।। प्राचीना ग्रन्थकारा ये, साध्यसिद्धिप्रदायकम् । त्वां मत्त्वा ते प्रकुर्वन्ति, ग्रन्थादौ तव मङ्गलम् ॥६९।। सद्भक्तिभावसंपन्नाः, कुर्वते वन्दनाः स्तुतीः । त्वन्निश्चलाश्रिताः षट्सु, मासेषु स्युः कृतार्थकाः ॥७०।। आसाद्य त्रिपुटीशुद्धं, धर्मं कर्मविचित्रताम् । ज्ञात्वा हेयादिनिःस्यन्दं, विवेकिसात्त्विकाशयाः ॥७१।। भो भव्या ! भावतो त्यक्त्वा, विषयान् काचसन्निभान् । अप्रमत्तस्वभावेन, श्रीमत्पार्श्वजिनेशितुः ॥७२।। भक्तिं कुर्वन्तु धैर्येण, स्वकीयाः सम्पदो यतः । दासीभवेयुरल्पेन, कालेनाऽऽपत्तिसंक्षयः ॥७३।। बाणनिधाननवेन्दु(१९९५)-प्रमिते वर्षेऽक्षयतृतीयायाम् । श्रीमदहमदाबादे, जैनपुरीराजनगराख्ये ॥७४॥ (आर्यावृत्तम्) श्रीनेमिसूरिचरणा-म्भोजालिसमानपद्मसूरिरिदम् । स्तम्भनपार्श्वचरित्र-स्तोत्रं प्रणिनाय मोदेन ॥७५।।
॥ श्रीसेरीसकपार्श्वनाथस्तोत्रम् ॥ सिद्धं सिद्धिनिदानमीज्यमसमं श्रीसिद्धचक्रं तथा, विद्वद्वर्यसमय॑पादकमलं श्रीनेमिसूरीश्वरम् । वाचं तीर्थकृतां पदत्रयमिति स्वाभीष्टसम्पादकं, वन्दित्वा वितनोमि शान्तिसुखदां सेरीसकार्हत्स्तुतिम् ॥१॥
(शार्दूलविक्रीडितवृत्तम्)