________________
श्रीस्तोत्रचिन्तामणिः
१६१
जयत्रिभुवनस्तोत्रं, प्राणैषीत् सूरिशेखरः । त्रयस्त्रिंशत्तमं काव्यं, पठन् पार्वं ददर्श च ॥४५॥ (अनुष्टब्वृत्तम्) दृष्ट्वा जहर्ष नीरोगो-ऽभूत् सङ्घो बिम्बवर्णनम् । श्रुत्वा संवासयाञ्चक्रे, तत्र स्तम्भनकं पुरम् ॥४६।। ऋषिकायाग्निचन्द्राङ्क(१३६७)-प्रमितान् वत्सरानिह । स्थितं वामेयसद्विम्बं, तदनूपद्रवात् पुनः ॥४७|| गजकायात्रिचन्द्राङ्क(१३६७)-प्रमिते वत्सरे च तत् । स्तम्भतीर्थवरोत्तंसं, सञ्जातं बिम्बमद्भुतम् ॥४८॥ उज्जयन्तगिरेलॆखाद्, ज्ञायते प्रोक्तवर्णनम् । काले श्रीहेमचन्द्रादे-स्तदभूत् स्तम्भनस्थितम् ॥४९।। चतुर्विंशतिकायां चा-ऽतीतायां षोडशप्रभुः । तीर्थेशो नमिनाथाह्वः, सञ्जातस्तस्य मुक्तितः ॥५०॥ द्वाविंशतिशताब्देषु, द्वाविंशत्यधिकेषु च । गतेषु श्रावको जात, आषाढी धार्मिकोत्तमः ॥५१॥ पार्श्वबिम्बत्रयं तेन, कारितं हितकाङ्क्षिणा । तत्राऽऽदिमं चारुपाख्ये, तीर्थे शङ्गेश्वरे परम् ॥५२॥ नीलधुति तृतीयं च, स्तम्भनाख्यपुरे वरे । स्थापितं वर्त्तते तच्च, स्तम्भतीर्थेऽधुना वरे ॥५३।। श्रीमत्स्तम्भनपार्श्वेश-पार्श्ववर्त्तिप्रभोरिमम् । वामेयस्य वरं लेख, प्रेक्ष्य सम्भाषितं मया ॥५४॥ परमन्येषु शास्त्रेषु, प्रोक्तं दामोदराभिधः । चतुर्विंशतिकायां चा-ऽतीतायां तीर्थनायकः ॥५५॥ समये तस्य चाऽऽषाढी, मूर्ति शर्केश्वरार्हतः । पार्श्वस्य कारयामास, भव्याब्जाहर्मणेवराम् ॥५६।। तस्येत्थं वर्णनं बोध्यं, श्रीदामोदरतीर्थपम् । अप्राक्षीदेवमाषाढी, प्राञ्जलिर्मुदिताशयः ॥५७।। कमालम्ब्य कदा कस्मिन्, तीर्थेऽहं मुक्तिसम्पदम् । प्राप्स्यामीति तदोवाच, श्रीमानहँस्तदुत्तरम् ॥५८॥ चतुर्विंशतिकायां च, भाविन्यां पार्श्वशासने । श्रुत्वाऽर्हद्देशनां भूत्वा, गणभृत् तवं गुणोत्तमः ॥५९।। सिद्धो भविष्यसीत्येवं, स्मृत्वोपकृतिमर्हतः । श्रीमत्पार्श्वस्य सद्विम्बं, कारयामास भक्तितः ॥६०॥ हरिखेचररात्रीशाः, श्रीभानुसज्जनादयः । चक्रिरे द्विविधां भक्ति, कृष्णोऽकार्षीद् बलं निजम् ॥६१।।