________________
१६०
श्रीविजयपद्मसूरिविरचितः
गोपस्तां च यदा दुदोह समये गेहागतां नो तदा, दुग्धं प्राप च बिन्दुमात्रमपि स श्रान्तो विपद्भागभूत् । अप्यन्तर्मम धेनुमुत्तमतमां को दोग्धि दध्याविति, तस्येत्थं परिचिन्तनार्तमनसः काले प्रभूते गते ॥ २९ ॥ तत्पश्चाद्गतिना प्रबुद्धमखिलं तेन प्रशान्तोऽभवन्मीमांसामकरोदितीह किमिदं चित्रं गतश्चेतसि । वर्यात्प्रतिमां ददर्श विदधानस्तत्स्थलं निर्मलं कोऽर्थोऽयं मम हर्षदोऽस्ति नितरां पप्रच्छ विज्ञानिति ॥३०॥ श्रीमत्स्तम्भनतीर्थपार्श्व इति निचिक्यौ तदुक्ते रवमन्यत्र प्रससार वर्णनमिदं तस्य प्रयत्नाद् द्रुतम् । जातो मेऽभ्युदयोऽद्य जन्म सफलं संपन्नमालोकना-दस्याग्रे त्रिदशमोऽपि लघुतां धत्तेऽत्र नो संशयः ॥३१॥ निःशेषाण्यपि कामितानि नितरां पूर्णानि तूर्णं द्विधा, दौर्भाग्याधिगदादयोऽप्यशुभदा भावा विनष्टा मम । प्रोद्दामाद्भुतसत्प्रभावविसरं वक्तुं प्रभोरस्य नो शक्तिर्नाकिगुरोरपीह न भवेद् दध्याविदं चेतसि ||३२|| तस्याऽऽश्चर्यविधायकस्य जगति श्रीपार्श्वनाथप्रभो - राचार्याभयदेवसूरिरिह स प्रादुष्कृतेः कारकः । आचार्येशजिनेश्वरोऽप्रवरसद्व्याख्यानकर्ता श्रुतः, तच्छिष्यत्वमिहोल्लिलेख रचिताङ्गीयासु टीकासु यः ||३३|| इत्यन्ये कथयन्तीति विम्बं प्रादुचकार सः ।
कथमित्युत्तरं दातुमथ वक्ष्ये मतं परम् ||३४|| (अनुष्टुब्वृत्तम्)
-
सूरिः सोऽनशनं चकाङ्क्ष समये पीडात्ययो मे यथे त्याकृतात् स्वमनोरथश्च प्रकटीचक्रे दिनान्ते पुरः /* सूरिः सोऽनशनेच्छुरित्यनुचितं कुष्ठोपशान्तिर्मया, कार्यैष्यत्यगदो यतो गुरुरयं धर्मो ममाऽखण्डितः । एवं चाऽऽशु विचार्य रात्रिसमये प्रादुर्बभूवाऽमरी, स्वप्ने द्योतितदिक् प्रसन्नवदनाऽवादीद् गुरुं भक्तितः ॥३६॥ कार्यं नोऽनशनं मुनीश ! भवता तीर्थंकर क्षाकृता ऽहं ज्ञात्वाऽवधिना ब्रुवेऽमृतकराद वो शासनस्योन्नतिः । भव्यानन्दकरी भविष्यति तथा सद्देशनावारिभिर्भव्यान् कर्मविपाकभूरिमलिनानाधास्यथ प्रोज्ज्वलान् ॥३७॥ एता: कोक्कडिका नवोद्यत! विधावुत्खेलय श्रीगुरो देहो मेऽस्त्यधुनाऽमयार्तिहुतभुग्दह्यमानो भृशम् । शक्तिश्चालयितुं न येन करमप्यल्पाऽपि संवर्तते, तेनोत्खेलनमादधातुमबलस्तासां गुरोर्वागिति ॥३८॥ साऽथोवाच नवाङ्गवृत्तिकरणं काले मुदा भाविनि, स्वाधीनं तव भव्यबोधललितं तस्याऽग्र एतत्कियत् । दीर्घायुर्भवतो न कापि भवता चिन्ता विधेया हृदि, मौनीन्द्रागमवृत्तिसाधनबलं मे नाऽधुनेति(?) च गुरुः ॥३९॥ देवी वक्ति वरेण्यनम्रवचनं खेदो न कार्यस्त्वयाऽऽयाताऽस्म्यामयनाशहेतुममलं वक्तुं च पार्श्वे तव । तत् तं स्वास्थ्यमुपागतः शृणु मुदा भाषेऽहमानन्ददं षण्मासावधिकं विधेयममलाचाम्लाभिधं सत्तपः ॥४०॥ इत्युक्त्वा प्रणति विधाय निजर्क स्थानं जगामाऽमरी, आचम्लानि चकार हृष्टहृदयो सूरिः क्रमेणाऽगदः । सदवृत्ती: प्रणिनाय वर्यविमलाङ्गानां नवानां ततः, ता अस्मिन् समयेऽङ्गिबोधकुशला दैवीयसांनिध्याः ॥४१॥ देहे साऽभयदेवसूरिसुगुरोः प्रादुर्बभूवैकदा, नागेन्द्रो ऽपजहार तं प्रबहुमानीदं बभाषे पुनः । सेढीभूस्थित पार्श्वबिम्बममलं प्रादुष्कुरु त्वं मुदा, यच्चिन्तामणिरत्नतोऽप्यधिकसत्प्रौढप्रभावान्वितम् ॥४२॥ तस्य स्नात्रजलेन कुष्ठविलयो देहः समर्थस्तथा चिह्नं तत्र वदामि धेनुरमलैका च स्वभावात् पयः । धारा यत्र विधास्यति प्रमुदिता बिम्बस्थलं तद् वरं श्रुत्वेदं धरणेन्द्रभक्तिवचनं हृष्टा अभूत् सूरयः ॥४३॥ श्रीसङ्घं सकलं गुरुश्च कथयामासोपश्रुत्याऽथ सः, प्रोल्लासाच्च जगाद तत्र गमनेच्छा नोऽधुना वर्त्तते । सानन्दाः समुपाजगाम (समुपाययुः सु) गुरवः सङ्घान्वितास्तत्स्थले,
यत् सत्किंशुकवृक्षसन्निधिगतं गोपालबाला जगुः ॥४४
* प्रथमावृत्ती ३५ तमम्लोकस्योत्तरार्ध न मुद्रितम् ।