________________
श्रीस्तोत्रचिन्तामणिः
१५९
चक्रे हास्यमृषेः कुतूहलरतास्ते यादवा मद्यपाः, क्रोधाच्छापमदात् स येन सपदि श्रीद्वारिका ज्वालिता । प्राकारात्ययतश्च वार्धिकजलैस्तन्मदिरं मज्जितं, श्रीबिम्बं तदवस्थमब्धिनिलयं जज्ञे तदा स्वास्थ्यदम् ॥१४॥ श्रेष्ठी सागरदत्त इत्यभिधया ख्यातः स पोतव्रजं, लात्वाऽम्भोधिपथा जगाम निभृतं पण्यैरभीष्टस्थलम् । देवः कोऽप्यचलं चकार सुरुचिस्तं मध्यभागेऽम्बुधे-र्दृष्ट्वैतां भयदां स्थिति स विदधे तत्कारणान्वेषणम् ॥१५॥ अत्राऽर्हत्पतिबिम्बमेवममरः स्पष्टं बभाषे तदा, तच्छ्रुत्वाऽमरवाग् भवेन्नवितथेत्यालोच्य हर्षं दधौ । तन्निष्कास्य सरित्पतेरनुपमं सप्तामसूत्रैर्बहि-भक्त: पोतवणिङ् मुमोच विनयात् कूलेऽथ वामाङ्गजम् ॥१६॥ बिम्बं स्वप्रभयाऽद्भुतं गतमलं श्रेष्ठी निरीक्ष्याऽमिता-नन्दस्तत्र सिषेच भद्रविटपिन्यर्चाम्बुधारा विधेः । नीत्वा कान्तिपुरीं स्वधामप्रवरं संस्थाप्य हर्यासने, प्रोल्लासाद् द्विसहस्रवर्षसमयं मेहुर्मुदेभ्यादयः ॥१७|| प्रापुस्तत्फलमुन्नतं यदुत पूर्वं वर्यभावावली-रासाद्याऽशुभकर्मतीव्ररसविध्वंसं द्रुतं चक्रिरे । सत्कर्मापचयं प्रवाहपतितं भेदोपलब्धि वरां, योगावञ्चकतां विभावदलनं मूलस्वभावस्थितिम् ॥१८॥ सान्निध्येन सुनाकिनश्च तदितो नागार्जुनः स्थानत, आनीयाऽथ निधाय पावनतमे सेढीतटीये स्थले । तस्याऽनादिमलापनोदबलवन्माहात्म्यबिम्बस्य सद्-ध्याना_दिमतिश्चकार विशदां गाङ्गेयसिद्धि वराम् ॥१९॥
प्रभावकचरित्रेऽयं, विशेषोऽत्र निरीक्ष्यते ।
भव्यास्तं श्रुणुताऽऽह्लादा-दैतिहासिकबोधदम् ॥२०॥ (अनुष्टुब्वृत्तम्) श्राद्धः कान्तिपुरीनिवास इह यो नाम्ना धनेशोऽभवत्, सन्नौकामुपविश्य सोऽन्यविषयं वाणिज्यकार्थं ययौ । चक्रे तामथ निश्चलामिह सुरोऽधिष्ठायको भक्तिमान्, तत्पूजाधिगतस्य तस्य वचसा निष्कास्य बिम्बत्रयम् ॥२१॥
(शार्दूलविक्रीडितवृत्तम्) तत्रैकं वरपत्तने स्थितिगतं नेमिप्रभोमन्दिरेऽ-न्यत्पुण्योदयदर्शनं प्रशमदं चारूपतीर्थे वरे । भाग्यासाद्यमतिष्ठिपद्धितकरं सेढीतटे चाऽन्तिम-माचार्याभयदेवसूरिविशदव्यावर्णनात् तद् ब्रुवे ॥२२॥
हिरण्यसिद्धावन्योक्तिः, श्रीनागार्जुनयोगिनः ।
तद्देशवासिलोकेभ्यो, भाष्यते या मया श्रुता ॥२३॥ (अनुष्टुब्वृत्तम्) श्रीपेशावरसन्निधौ जनपदस्तत्तायफादेहिनां, श्रीपार्श्वस्य च तत्र मन्दिरमभून्नागार्जुनाख्ये गिरौ । सा सेढी च तदन्यमार्गगतिका पार्श्वप्रभावात् खलु, मन्ये वन्दनछद्मना सरिदकार्षीत् तीर्थपावग्रहम् ॥२४॥
(शार्दूलविक्रीडितवृत्तम्) तत्रोपास्तिविधौ नितान्तनिरतो योगी द्विधा निश्चलो, लेभेऽष्टापदसिद्धिमिष्टफलदामन्यासुभृदुर्लभाम् । श्रीमत्स्तम्भननामतीर्थममलं भूरिप्रसिद्धि ययौ, भक्तानां यदभीष्टसार्थममलं दातुं सदा प्रत्यलम् ॥२५॥
कामकुम्भादयोऽप्या, ऐहिकाभीष्टदायिनः । श्रीपार्श्वस्तूभयार्थानां, दायकोऽन्यन्निरर्थकम् ॥२६।। (अनुष्टुब्वृत्तम्) तस्य प्रादुष्कृतौ शास्त्रे, प्रोक्तमस्ति मतद्वयम् ।
तत्राऽऽदौ प्रथमं वक्ष्ये, सङ्क्षिप्तं भक्तिगर्भितम् ॥२७॥ पुण्यं चेत् प्रबलं करोति पशुरप्याश्चर्यदां कां कृति, गौरेकेह चचार निश्चितहिता यत्र स्थिताऽर्चा विभोः । सेयं पांशुजराशिना विपिहिता नाऽऽलोक्यते चक्षुषा, कर्तुं स्नात्रमिवाऽतनीदिह पयोधाराः स्तनेभ्योऽसिता ॥२८।।
(शार्दूलविक्रीडितवृत्तम्)