________________
श्रीस्तोत्रचिन्तामणिः
१५७
गुणिनां गुणसङ्गेन, निर्गुणोऽपि गुणीभवेत् । तदुत्पत्तिविभुस्तोत्रा-दतस्तत् कार्यमङ्गिभिः ॥२९॥ पूजनाज्जायते पूज्यो, ध्यानतो ध्यानगोचरः । वन्दनाद् वन्दनीयश्च, दर्शनीयोऽवलोकनात् ॥३०॥ गदितं स्तवनादीनां, फलमेवं जिनश्रुते । तथा व्यावर्णितं श्रुत्वा, को न स्याद् भक्तितत्परः ॥३१॥ नश्वरं जीवितं भव्या !, विपाकः कर्मणां तथा । भयङ्करः क्षणादूर्वा, भावि किं तन्न बुध्यते ॥३२।। भोगतृष्णां धिया बुद्ध्वा, श्वभ्रक्लेशप्रदायिनीम् । भजतैनं मुदा पाश्र्वं, नोचितोऽन्यत्र विभ्रमः ॥३३।।
॥ आर्यावृत्तम् ॥ बाणनिधाननवेन्दु(१९९५)-प्रमिते संवत्सरे च मधुमासे । सितपक्षे पञ्चम्यां, त्रिप्रभुस्तोत्रं च पोन ॥३४॥ रचितमहमदाबादे, करणादेतस्य यन्मया लब्धम् । पुण्यं तेनाऽस्तु सदा, मङ्गलमाला च सङ्घगृहे ॥३५।।
॥ श्रीपञ्चस्तोत्रम् ॥ सिद्धचक्रं मुदा नत्वा, नेमिसूरिपदाम्बुजम् । पञ्चस्तोत्रं प्रकुर्वेऽहं, भक्तिभावार्थसङ्गतम् ॥१॥ (अनुष्टुब्वृत्तम्) पद्मावतीन्द्रवरुण-रामकृष्णादिदेहिभिः । पूजितं बहुधा भावात्, स्तम्भनेशं सदा स्तुवे ॥२॥ प्रभावाद्भुतलावण्य-निधानं सम्पदां पदम् । स्तुतं सद्भिः स्वसिद्ध्यर्थं, नौमि शङ्केश्वरं प्रभुम् ॥३॥ वन्दे चारूपतीर्थेशं, पार्श्वनाथं वरप्रभम् । प्रणामादपि यस्य स्युः, सफलाः सन्मनोरथाः ॥४॥ शुक्लध्यानप्रयोगेणा-ऽऽसादितज्ञानसम्पदम् । पञ्चासरप्रभुं पार्वं, प्रणमामि प्रगेऽनिशम् ।।५।। कर्मबन्धोदयापेतं, सत्तातीतं महाबलम् । क्षायिकैश्वर्यसंपन्नं, स्तौमि सेरीसकप्रभुम् ॥६।। चतुर्भङ्गी श्रुते प्रोक्ता, भक्तिप्रणययोरिह । त्रिभङ्गपरिहारेण, आद्यो भङ्गः सुखप्रदः ॥७॥ परस्तु मध्यमो ज्ञेयः, परित्यागोऽन्त्ययोर्द्वयोः । श्रीमत्तीर्थकृतां पूजा-गोचरेयं विचारणा ॥८॥