________________
१५६
श्रीविजयपद्मसूरिविरचितः
श्रीशङ्केश्वरनाथाय, महानन्दप्रदायिने । कल्याणाङ्घ्रिपमेघाय, चित्रमाहात्म्यशालिने ॥१२॥ सत्प्रातिहार्ययुक्ताय, विश्वदेवातिशायिने । अखण्डानन्दरूपायो-ज्जागरस्थितियोगिने ॥१३।। नयनिक्षेपसद्भङ्ग-ध्येयाय शमिनां मुदा । नमो देवाधिदेवाय, पदपञ्चकधारिणे ॥१४॥ यस्याऽनुभावतः कृष्णो, जरार्तं कटकं निजम् । निरामयं मुदा चक्रे, भक्तिस्तीव्रा न निष्फला ॥१५।। निश्चलाराधनायोगा-ल्लब्धा सज्जनमन्त्रिणा । दुर्लभा निविलम्बेन, नैके मन्त्रादिसिद्धयः ॥१६॥ स श्रीपार्श्वजिनाधीशो, साध्यसिद्ध्यभिलाषिणाम् । प्रदद्याद् वाञ्छितवातं, रक्षतु मां गदापदः ॥१७।। कर्मजव्याप्यपीडा”, दुर्जनशल्यभूपतिः । गदध्वंसेच्छया चक्रे, सूर्यबिम्बस्य साधनाम् ॥१८॥ अधिष्ठायकदेवोऽस्यो-वाच प्रत्यक्षगोचरः ।। कर्तुं त्वां गदनिर्मुक्तं, न शक्तिर्मेऽस्ति तादृशी ॥१९॥ याहि शङ्केश्वरेशान-पार्श्वपार्वे स एव ते ।। सर्वाङ्गीणगदान् सर्वान्, अपनेष्यति सत्वरम् ॥२०॥ श्रुत्वेति देववाणी नो, वितथा कर्हिचिद् भवेत् । इत्यालोच्य समागत्य, प्रचक्रे वर्यसाधनाम् ।।२१।। प्रभावादहतः सोऽभूत्, निर्गदो हर्षवानपि । कदापि निश्चला श्रद्धा, निष्फला न भवेद् यतः ॥२२॥ खेचरेन्द्रौ रविश्चन्द्रः, शक्र: पद्मावती तथा । नागेन्द्राद्या मुदोपास्ति, चक्रिरेऽस्य वरे स्थले ॥२३।। अन्ये वितेनिरे भक्तिं, ममतां निजसम्पदाम् । विहाय बहुमानेना-ऽवञ्चका भद्रकाङ्क्षिणः ॥२४।। तदनुकृतिमाधाय, विधेयं भव्यभाविभिः । श्रीशद्वेश्वरपार्श्वस्य, स्तुतिध्यानार्चनादिकम् ॥२५।। जीयात् स्तम्भनतीर्थेशः, पार्श्वनाथो जगद्विभुः । यस्तद् दते न यद्दाने, समर्थो नाकिपादपः ॥२६।। ऐतिहासिकशास्त्रादौ, वर्णनं यस्य वर्णितम् । यं श्रुत्वा विबुधाः सर्वे, चित्रमायान्ति चेतसि ॥२७॥ करालभवपाथोधौ, बद्धकर्मनिमज्जताम् । जन्तूनां पोतसङ्काशं, स्तौति यः स्तुत्य एव सः ॥२८।।