________________
श्रीस्तोत्रचिन्तामणिः
१५५
॥ ६. श्रीपार्श्वनाथस्तोत्रसन्दोहः ॥
॥ श्रीत्रिप्रभुस्तोत्रम् ॥ श्रीशान्तिनाथतीर्थेशं, नत्वा गुरुपदाम्बुजम् । त्रिप्रभुस्तोत्रमाधास्ये, भद्राय स्वपरात्मनाम् ॥१॥ जय श्रीसिद्धचक्रेश ! विघ्नतापशमाम्बुद ! । मंगलादिदसन्नाम !, भवाब्धौ पोतसन्निभ ! ॥२॥ चित्रं पश्यत भो भव्याः !, पूजैकाऽपि करोति किम् । अस्य श्रीसिद्धचक्रस्य, चतुरर्थप्रसाधिका ॥३॥ दानशीलतपोभाव-भेदतोऽयं जिनोदितः । चतुर्विधोऽपि सद्धर्मो, साध्यतेऽर्चाविधायिना ॥४॥ दानं मोहपरित्यागो, न्यायद्रव्यव्ययादयम् । पुष्पादिकं प्रभोरङ्गे, ढौकते पूजनक्षणे ॥५॥ शोभनाचारिता शीलं, ब्रह्मचर्यात्मकं तथा । साधयेत् स प्रशान्तात्मा, पूजाकाले प्रमोदतः ॥६॥ तावन्नाऽश्नाति भक्तोऽयं, कुरुते यावदर्चनाम् । साधना तपसो देशा-देवं दानादिसाधना ।।७।। पूजोद्यतस्य भव्यस्य, भावनाऽप्युज्ज्वला तदा । हेत्वधीनोऽनिशं भावो, जायते शास्त्रगीरिति ।।८।। आयुषश्चञ्चलत्वेऽपि, सद्भाग्यं मेऽद्य हे प्रभो ! । पूजनावसरो लब्धो, यद् मयेत्युत्तमभावना ।।९।। तव स्नात्रविधानेना-ऽहमप्युज्ज्वलतां गतः । पुण्यलभ्यः क्षणोऽप्यस्य, विशुद्धत्यस्य भावना ॥१०॥ चरित्रं स्मृतिमायाति, तेऽस्य सद्भावनार्चया । ततो भेदप्रबोधेन, नरो भवति सिद्धिभाक् ॥११॥