________________
१५४
श्रीविजयपद्मसूरिविरचितः
॥ ५. श्रीआदिप्रभुस्तोत्रम् ॥
शुक्लध्यानसमाप्तसाधनतयाऽगण्या पवित्रात्मनः, यस्योपास्तिरता शिवालयगताः सद्यो बभूवुर्जनाः । ख्यातो यो भुवनत्रयेऽरिजयनाच्छत्रुञ्जयस्वाख्यया, तत्रस्थः प्रभुनाभिभूपतनयः श्रेयस्करो नोऽस्तु वः ॥१॥
(शार्दूलविक्रीडितम्) यत्रस्थश्च बभूव केवलिवरः श्रीपुण्डरीको गणी, सिद्धोऽङ्गादिविभावभावरहितः सत्पञ्चकोटीयुतः । तेनाऽऽख्यातिमवाप सोऽत्र नितरां श्रीपुण्डरीकाख्यया, जीयात् सोऽमृतभोजिनाथमहितः श्रीपुण्डरीकाचलः ॥२॥ कालेऽस्मिन्नपि यस्य दर्शनमरं सद्भावनावर्धकं, किं भक्तेविषयीकृतस्तु न तदाऽभीष्टार्थसम्पादकः । दृष्ट्वाऽमर्षसमाकुलोऽपि लभते यं शान्तिभावावलिं, स्वीयात्मोन्नतिकृत् सदा विजयते स श्रीदशत्रुञ्जयः ॥३॥ आनन्दावलिमाप्य सङ्घकलिता यत्रैत्य भव्यात्मनो, मन्वाना द्रविणाप्तिमात्मविहितां सन्न्यायमार्गानुगाम् । साफल्यान्वयितां गतां भविजना आदीशपादार्चनाद्, धन्यां पल्वलसन्निभं विदधते संसाररत्नाकरम् ॥४॥