________________
श्रीस्तोत्रचिन्तामणिः
१५३
॥ ४. श्रीशत्रुञ्जयप्रभुस्तोत्रम् ॥
यः कल्याणरुचिर्गुरुश्च जगतां यं स्तौति देवाधिपो, येन स्थानमनन्तमाप्तमचलं यस्मै च भव्यस्पृहा । यस्मात् ख्यातिगताः कला भविजना यस्याऽभिधां ध्यायति, यस्मिन् सिद्धिततिः प्रणौमि तमहं शत्रुञ्जयाधीश्वरम् ॥१॥
(शार्दूलविक्रीडितवृत्तम्) कल्याणद्रुमपल्लवैकजलदः सद्भावसम्पादको, विश्वस्थाङ्गिमनोऽब्जभानुरतुलात्मीयर्द्धिदानक्षमः । सद्वाञ्छाघटितार्थसार्थविशदत्यागामरेलारुहः, श्रीनाभेयजिनाधिपोऽस्तु भविनां माङ्गल्यमालाप्रदः ॥२॥ यज्जन्मादिचतुष्टयेऽत्र निरयेऽप्याभाससौख्यं भवेद्, यत्स्थानाचलदर्शनादपि भवेयुनिर्मला भद्रिकाः । तिर्यञ्चोऽपि गताः सुपर्वनिलयं यद्ध्यानमात्रादपि, तं वन्देऽमितभावभावविमलानन्तालयाब्जालयम् ॥३॥ पूर्वानेकभवार्जिताघनिचयप्रोत्सारिणं योगिनं, निःशेषाभ्युदयप्रदाननिपुणं कान्तं निशान्तं श्रियः । भव्योद्गीतयशःप्रशस्तिप्रहताशेषान्तरारिव्रजं, वेदेन्दुप्रमितैः कृतार्थमिहितस्थानैर्गुणानां क्रमात् ॥४॥ मोक्षाप्तिर्न यदन्तरेति गदितं श्रीमज्जिनेन्द्रागमे, मूलं बोधितरोनिधानमसमं यद् गीयते सम्पदाम् । यस्माद् बोधसुसंयमेऽपि सफले यत् तीर्थकृत्कर्मदं*, तत् सम्यक्त्वसमर्पकं प्रतिदिनं स्वर्णाद्रिनाथं स्तुवे ।।५।। अस्मिन् नाटकसंनिभे भवपुरे कालादनादेरहं, रागाद्यैश्चरटैविपत्तिदलनात् ते दर्शनादन्तरा । कृत्वा मां प्रविडम्बितं करुणया हीनैरहं नाटितो, दृष्टः सात्त्विकहर्षदस्त्वमधुना पुण्यप्रभावान्मया ॥६॥ त्रैलोक्याक्षिचकोरचन्द्रजिनपश्रेणिप्रधानप्रभो !, निष्कर्मा त्वमहं च कार्मणमहास्कन्धान्वयैर्वेष्टितः । भेदं किङ्करपूज्ययोर्जनयतः कर्मित्वनिष्कर्मते, शीघ्रं तं तदपाकुरुष्व कृपया यं काक्षते मे मनः ॥७॥
|| अनुष्टुब्वृत्तम् ॥ मङ्गलं गिरिराजोऽस्तु, श्रीसङ्घ जिनशासने । शत्रुञ्जयेशभक्तानां, गृहेऽस्तु मङ्गलावलिः ॥८॥
R
* 'यस्माद् ज्ञानमथो चरित्रमपि च स्यात् सत्फलं निर्मल'मिति स्यात् ।