________________
१५२
श्रीविजयपद्मसूरिविरचितः
॥ ३. श्रीपञ्चतीर्थीस्तोत्रम् ॥
श्रीस्याद्वादसरित्पतीन्दुप्रतिमं भव्याङ्गिभद्रङ्कर-माद्यं मापमुनीश्वरार्हदधिपं कृत्वा तपो वार्षिकम् । चित्रं पारणकं रसेन विदधे श्रेयांससत्केन यो, वन्दे पूज्यपदारविन्दयुगलं तं श्रीयुगादीश्वरम् ॥१॥
(शार्दूलविक्रीडितम्) यत्कीर्तिः प्रससार पूर्वसमये श्येनावनेनाऽभितः, कल्याणदुमकाननोन्नतिघनं शान्तप्रसन्नाननम् । विध्यानार्जितकर्मसार्थमुदिरोत्साराशुगं सन्मति, ध्यायामीष्टसुरद्रुमं गतरति श्रीशान्तिनाथं मुदा ॥२॥ यद् दीक्षकनिबन्धनं सकलविघ्नौघो यतो नश्यति, तद्ब्रह्मव्रतलीनचित्तममदं विज्ञानचूडामणिम् । यस्तत्याज रतामपि प्रमुदितां राजीमती रङ्गतः, स्वीचक्रे वरसंयमं प्रणिदधे श्रीनेमिनाथं सदा ॥३॥ हर्यङ्गष्ठनिवेशितामृतरसाहारेण यो वधितः, संशुद्धावधिनाऽवगम्य कमठप्रज्वालिताग्नावहिम् । मन्त्रं स्वानुचरेण भव्यगतिदं संश्राव्य कारुण्यतः, सदृष्टिं विततार जिष्णुपदवीं तं पार्श्वनाथं स्तुवे ॥४॥ यस्याऽगाधकृपा हि संगमसुरे गोशालके द्वेषिणि, नि:सीमा समता रिपौ बलयुते शक्रे नमस्कुर्वति । वागध्यात्मरसप्रदा प्रबलमोहस्पर्द्धकं शान्तिदं, सद्भावेन नमामि वीरमनिशं तं शासनाधीश्वरम् ॥५॥