________________
श्रीस्तोत्रचिन्तामणिः
॥ श्रीमहावीरस्वामि-चैत्यवन्दनम् ॥ यन्नामध्यानयोगाद् भविजननिलये जायते मङ्गलालिर्यस्याऽर्चा विघ्नकोटीविलयनकुशलाऽऽत्मीयसंपत्प्रदाना । मेरौ जन्मक्षणे यो हरिसुरनिवहैः स्नापितो भक्तितो यः, स श्रीवीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ||१|| (स्रग्धरा) श्रुत्वा यस्योपदेशं सपदि भविजनाः प्राप्तसन्मार्गबोधा, देशाद् वा सर्वतः संयमममलममन्दोन्नतिं साधयित्वा । शीघ्रं संप्राप्नुवन्ति क्षपकततिबलात् साध्यसिद्धिं विशिष्टां, स श्रीवीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥२॥ निःसीमं यस्य साम्यं वरपदपतिते वासवे च द्विजिह्वे, वृत्तात् सारं च लब्ध्वा विमलमतिजनाः शान्तिसौख्यं लभन्ते । कर्मस्पर्द्धाप्रवीणं जगति विजयिनं सिद्धसिद्धार्थसूनुं, स श्रीवीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ||३||
+8
१५१