________________
१५०
श्रीविजयपद्मसूरिविरचितः
॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ अर्हद्वरेण्यं वरसाम्यसिन्धु, पद्माङ्गजं तीर्थपति विमोहम् । भव्याननं विश्वप्रकाशभानु, नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥१॥ (इन्द्रवज्रावृत्तम्) दुःखौघसंसारपदार्थकाङ्क्षा-मेघापनोदानिलमुत्तमाप्तम् । प्रत्यूहकाष्ठौघविदाहनाग्नि, नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥२॥ सद्देशनारञ्जितभव्यलोकं, सत्केवलालोकितसर्वभावम् । सिद्धं भवाम्भोनिधियानपात्रं, नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ।।३।।
॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥ शान्ताकारं भव्यचेतोऽब्जभानु, संसाराब्धौ यानपात्रं जनानाम् । सद्भावाढ्यं चङ्गनीलाब्जचिह्न, वप्रापुत्रं सर्वदा नौमि भावात् ॥१॥ (शालिनीवृत्तम्) कल्याणौघाधायकं शुद्धबोधं, सद्ध्यानश्रेणिप्रणष्टारिसैन्यम् । विश्वापद्विध्वंसिनी यस्य पूजा, वप्रापुत्रं सर्वदा नौमि भावात् ।।२।। दृष्टे यस्मिन् सात्त्विकानन्दलाभो, ध्यानाद् यस्य प्राज्यसिद्धिप्रसिद्धिः । देवाधीशाधज्रिसार्था~पाद, वप्रापुत्रं सर्वदा नौमि भावात् ॥३॥
॥ श्रीनेमिनाथ-चैत्यवन्दनम् ॥ भव्याकारं प्रशमजलधि शक्रपूज्याङ्ग्रिपद्मं, मेघश्यामं विमलमतिदं भिन्नसंसारचक्रम् । संसाराब्धौ प्रवहणनिभं मेघगम्भीररावं, तं शङ्खाङ्कं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥१॥ (मन्दाक्रान्तावृत्तम्) यस्त्रिज्ञानी मदनविपदं जन्मतो ब्रह्मचारी, ज्ञात्वाऽन्तःस्थप्रवरमतिना भाववैराग्यधारी । त्यक्त्वा रक्तां नृपतितनयां वर्यराजीमती तां, दीक्षां गत्वा सपदि जगृहे रैवताद्रौ प्रमोदात् ॥२॥ शुक्लध्यानक्षपकततिसंप्राप्तसत्केवलेन, ज्ञाताशेषद्रविणभवनाशस्थिरत्वादिभावम् । शैलेश्यासादितशिवपदं प्रौढलक्ष्मीसमेतं, तं शैवेयं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥३॥
॥ श्रीपार्श्वनाथ-चैत्यवन्दनम् ॥ प्रसन्नास्यः शक्रामरततिनुतो भव्यचरितो, जगज्जीवध्येयः प्रशमसुखदो यो गुणनिधिः । भवाब्धौ वृद्धत्वोद्भवमृतिजलाढ्ये प्रवहणं, स्तुवे तं वामेयं जितसुरतरं भव्यचरणम् ॥१।। (शिखरिणी) समं चेतो यस्य प्रणयि धरणेन्द्रे च कमठे, महाद्वेषस्तोमाग्निविसरविदग्धेऽधमतमे । मनोऽभीष्टत्यागामरविटपितुल्यो जगति यः, स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥२॥ जगद्बन्धुं दिव्यातिशयगणसंपत्परिगतं, जगन्नाथं तीर्थाधिपतिममलानन्दशरणम् । कृपासिन्धुं मेघध्वनिममलचिद्रूपकलितं, स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥३॥