________________
श्रीस्तोत्रचिन्तामणिः
॥ श्रीशान्तिनाथ - चैत्यवन्दनम् ॥
मतिश्रुतावधीनमुद्भवक्षणात् प्रमोददं, सुरेशचक्रिपूजिताङ्घ्रिवारिजं वराननम् । प्रशस्तसंपदावलिप्रदानदक्षसेवनं, वराचिराङ्गजं स्तुवे सदैव शान्तितीर्थपम् ||१|| (पञ्चचामरवृत्तम्) जगत्प्रमोददायकं प्रणष्टमोहसायकं शमीशचित्तवासिनं परात्मसम्पदाऽन्वितं । विशिष्टदेशनातिशायिसिद्धिमार्गदर्शकं नमाम्यनन्तशर्ममग्नविश्वसेननन्दनम् ॥२॥ भवाब्धियानपात्रसंनिभं प्रदीप्तिधारकं, विशिष्टपुण्यशालिनं मृगध्वजं गुणास्पदम् । विशालदेशनाप्रबोधितासुमत्कदम्बकं, सदा स्मरामि चक्रिनाथविश्वसेननन्दनम् ||३||
१४९
॥ श्रीकुन्थुनाथ - चैत्यवन्दनम् ॥ भव्यमनोकजभासनभानुं, श्रीजननीसुतमर्हदधीशम् ।
चन्द्रमुखं दितदोषसमूहं स्तौमि सदा प्रभुकुन्थुजिनेशम् ॥१॥ (दोधकवृत्तम्) घातिचतुष्टयकर्मविनाशा - ल्लब्धमहोदयकेवलबोधम् । योगनिरोधसमाश्रितमुक्ति, स्तौमि सदा श्रीकुन्थुजिनेशम् ॥२॥ भावकृपाम्बुसमुद्रशमीशं, सात्त्विकहर्षनिकेतनवक्त्रम् । योगिजनस्मृतिगोचरमाप्तं, स्तौमि सदा प्रभुकुन्थुजिनेशम् ||३||
॥ श्रीअरनाथ-चैत्यवन्दनम् ॥
वार्धिगभीरं सुरगिरिधीरं, शान्तिनिशान्तं सुगुणनिधानम् । शस्त्ररमासङ्गरहितदेहं श्रीअरनाथं जिनपतिमीडे ॥१॥ ( श्रीवृत्तम्) आत्मिकलक्ष्मीनिवसनगेहं नागपुरेशं दमितखसार्थम् । नष्टकषायं भवदववारिं श्रीअरनाथं जिनपतिमीडे ॥२॥ कञ्चनवर्णं सदतिशयाढ्यं, विघ्नघनौघापसरणवायुम् । विश्वजिनेशं प्रशमदपूजं श्रीअरनाथं जिनपतिमीडे ||३||
•
॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥
सुरासुरेशसेवितं, प्रभावतीप्रमोददम् । प्रणाशिताखिलापदं, स्मरामि मल्लितीर्थपम् ||१|| (प्रमाणिकावृत्तम्)
निशाकरप्रभाननं, मनोज्ञवाचमीश्वरम् ।
मनोरथप्रदायकं, स्मरामि मल्लितीर्थपम् ॥२॥
अमित्रमित्रयोः सदा, समानभावभूषितम् । समस्तदोषवर्जितं, स्मरामि मल्लितीर्थपम् ॥३॥