________________
श्रीविजयपद्मसूरिविरचितः
अन्त:स्थावितथप्रमोदनिभृताः कृत्वा शचीशामरा, यत्पादाब्जयुगस्य भक्तिममलां तज्जन्यसौख्याम्बुधेः । अग्रे शर्म निजं तृणोपममपि प्राज्यं न ते मन्वते, वन्देऽध्यात्मरसप्रदायकमहं तं श्रीजयानन्दनम् ॥२॥ सच्चित्ताब्जदिनेशकल्पममितैः सल्लक्षणैरन्वितं व्यस्ताशेषसरोषदोषनिकरं पुण्यद्रुमेघोपमम् । शुक्लध्यानकृशानुहेतिनिवहप्रध्वस्तकर्मेन्धनं, नौमि श्रीवसुपूज्यभूपतनयं प्रौढप्रभावाननम् ॥३॥
१४८
॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ निखिलाक्षनिरोधकारकं, हरिदेवौघसमर्चितक्रमम् ।
विकलङ्कचरित्रधारकं, विमलं स्तौमि जिनं शमीश्वरम् ॥१॥ (वैतालीयवृत्तम्) यदि चेतसि भद्रवाञ्छना, तव हे जीव ! तदा हितप्रदाम् । प्रमुदाऽविचलेन चेतसा, कुरु वर्यां विमलार्चनां सदा ॥२॥ विमला बहवोऽभिधानतो, गुणयुक्ता पुनरत्र दुर्लभाः । विमलं गुणतोऽभिधानतः, प्रणमामीशमनन्तसद्गुणम् ||३||
॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ भव्यचेतश्चको रेन्दुरीशोऽर्हतां, संस्तुतो भावतो द्योपतीशव्रजैः । चित्कलानन्दिताशेषसन्मण्डलो - ऽनन्तनाथोऽस्तु मे सर्वसिद्धिप्रदः ||१|| (स्रग्विणीवृत्तम्) शर्मदं कामदं कामदं निर्गदं विश्वविश्वस्थभव्याङ्गिसंपूजितम् । सिंहसेनान्वयव्योमदोषाकरं त्वामनन्तेश्वरं स्तौमि निस्तारकम् ॥२॥
त्यक्तरामाक्षमालास्त्रसार्थान्वयं, मङ्गलालिप्रदानामरानोकहम् ।
नामसद्ध्यानतो यस्य सिद्धिर्भवेद् नौमि तं श्येनचिह्न जिनाधीश्वरम् ॥३॥
॥ श्रीधर्मनाथ - चैत्यवन्दनम् ॥
भुवनभव्यकजोन्नतिभास्करं, सकलवाञ्छितदानसुरद्रुमम् ।
विमलमङ्गलकेलिविधायकं भजत भानुसुतं भुवनाधिपम् ॥१॥ ( द्रुतविलम्बितवृत्तम्) अशनिलञ्छनमुत्तमसुव्रता - ङ्गजमनन्तगुणावलिभूषितम् । मथितमन्मथदर्पमनीश्वरं, भजत भानुसुतं भुवनाधिपम् ॥२॥ अमृतभोजिगणस्तुतसद्गुणं, अतिशयाञ्चितदेहजगद्वरम् । प्रवरधर्मदधर्मजिनेश्वरं भजत भानुसुतं भुवनाधिपम् ||३|| जगति विश्रुतकीर्तियशोभरं, त्रिजगदुत्तमपुण्यचयान्वितम् । प्रशमदं परभावनिवारकं भजत भानुसुतं भुवनाधिपम् ॥४॥ अशरणावनदायकदर्शनं, परमकेवलबोधविराजितम् । पुरुषसिंहनिभं पुरुषोत्तमं, भजत भानुसुतं भुवनाधिपम् ॥५॥