________________
१४४
श्रीविजयपद्मसूरिविरचितः
खदमिनं खमनोरथनिर्गतं, मदनखं खमिवाऽनघलेपनम् । जिनखमप्रतिकारखमारतं, तमजितं भविनीरजखं स्तुवे ॥३॥
॥ श्रीअजितनाथ-चैत्यवन्दनम् - २ ॥ दिव्यातुलां सुखततिं विजयेऽनुभूया-ऽयोध्यापुरीं च विजयाशुभकुक्षिशुक्तौ । मुक्तोपमोऽजितजिनोऽवततार विज्ञः, श्वेतत्रयोदशदिनेऽमलमाधवीये ॥१॥ (वसन्ततिलका) यस्याऽष्टमीवरदिने सितपक्षमाघे, जन्मोत्सवोऽमरवराः प्रचकार मेरौ (वं सुरवरा विदधुः सुमेरौ)। माघे सिते च नवमीशुभवासरे यो, दीक्षां ललौ प्रविशदोन्नतभावनाढ्यः ॥२।। ध्यानान्तरीयसमये गतघातिकर्मा, संप्राप केवलमनन्तपदार्थबोधम् । लेभे शिवं सकलकर्मविनाशकाले, कर्माजिताजितप्रभुं प्रणिदध्महे तम् ॥३॥
॥ श्रीतारङ्गतीर्थपति-श्रीअजितनाथ-चैत्यवन्दनम् - ३ ॥ भव्याम्बुजोल्लसनैकदिनपतिनिजगुणौघरमणकरं, निखिलविश्वपदार्थदर्शकबोधरत्नजलाकरम् । नाकीशसुरनरचक्रिपूजितविमलपादेन्दीवरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥१॥
(हरिगीतच्छन्दः) सद्वाक्यरचनोल्लासबन्धुरप्रगुणगुणगणमन्दिरं, शुभचरणविबुधकदम्बसंस्मृतभावरत्नविकस्वरम् । सकलाङ्गिभद्रविधानतत्परविशदधर्मखभास्कर, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥२॥ सध्यानपावकदग्धहास्यविनोदमदनेन्धनभरं, सदतिशय[गुण]गणभूषितं परभावपीडोत्करहरम् । सद्देहिवाञ्छितवर्गवितरणकल्पतरुमुत्तमनरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥३॥ यद्देशनामुपकर्ण्य भूपकुमारपालः सुन्दरं, प्रविधापयाञ्चक्रे जिनालयमत्र तीर्थे श्रीधरम् । कलिकालसर्वज्ञेन तेनेडितपदं शान्त्याकरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥४॥ त्वां [सु]प्रसन्नास्यं प्रणम्य करोमि विज्ञप्ति हितां, मां [द्राक्] त्वया सदृशं विधेहि जिनेश ! भक्तिसमन्वितम् । गुरुनेमिसूरीशपद्म एवमुवाच नम्रवचनभरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥५॥
॥ श्रीसम्भवनाथ-चैत्यवन्दनम् - १ ॥ भुवनाद्भुतभाग्यभरेज्यपदं, भवनीरधिपोतनिभं शमदम् । चितकर्मगदौषधमाप्तवरं, प्रणमन्तु जितारिसुतं भविकाः ! ॥१।। (त्रोटकवृत्तम्) जलदं रुचिपादपपल्लवने, सकलाङ्गिहितप्रदसूक्तिततिम् । विमलातिशयर्द्धिसमूहयुतं, नम सम्भवनाथजिनाधिपतिम् ॥२॥ जगतीतलभूषणभारहरं, स्वपवर्गसनातनसौख्यकरम् । स्थिरशान्तिनिधि विपुनर्भवनं, प्रणमामि गज(हय)ध्वजदेहमहम् ॥३॥