________________
श्रीस्तोत्रचिन्तामणिः
१४३
॥ २. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि ॥
॥ श्रीआदिनाथ-चैत्यवन्दनम् - १ ॥ बिन्द्वक्षिप्रमितानि वर्यमहिमास्थानानि सर्वाण्यपि, सेवित्वा जिननामकर्म प्रबबन्धाऽऽनन्दतो यः प्रभुः । पश्चादन्त्यभवे सयोगिगुणधाम्नि प्राप्तवर्योदयो, भव्यायां समवसृतौ समुपवेश्येष्टां ददौ देशनाम् ॥१॥
(शार्दूल०) सद्धर्मादिकरं सुरासुरनतात्र्यम्भोजमर्हद्वर-मन्तातीतपराक्रमान्वितमहाशैलेशधैर्यास्पदम् । रागाद्यतिविनाशकं त्रिभुवनध्येयाभिधं बोधिदं, श्रीशत्रुञ्जयपार्थिवं प्रतिदिनं प्रातर्मुदाऽहं स्तुवे ॥२॥ शोभन्ते हरयोऽपि यस्य चरणाब्जे षट्पदाभा भृशं, कृत्वाऽचर्चा शुभसात्त्विकी तृणनिभं स्वीयं सुखं मन्वते । विघ्नाधायककर्मभूधरमहावज्रं च सोमाननं, तं नाभेयप्रभुं स्तुवन्तु भविनः सन्निर्जराकारणम् ॥३॥
॥ श्रीआदिनाथ-चैत्यवन्दनम् - २ ॥ युगलिकमनुजानां योऽनिशं भक्तिभाजा-मुपकृतिमुपचक्रे राज्यमाप्तो युगादौ । भवमगणितदःखं मुक्तिदां च प्रव्रज्यां, लघ मनसि विचार्यैतां मदाऽङ्गीचकार ॥१॥ (मालिनी) सममतिमवलम्ब्य स्वानुकूलेऽपरस्मिन्, भविजनहितलब्ध्यै यो धरायां विजहे । कलितनिखिलभावः केवलेनाऽनुभावात्, समुदितजिननामा घातिकर्मप्रणाशे ॥२॥ हरिभिरमरयुक्तैरचितो दिष्टधर्मो, विगलितरिपुवर्गः संस्मृतेर्यस्य नाम्नः । समजगदसुमन्तः प्राप्नुवन्तीष्टसिद्धिं, स भवतु मम मुक्त्यै नाभिसूनुर्वृषाङ्कः ॥३॥
॥ श्रीअजितनाथ-चैत्यवन्दनम् - १ ॥ सुखदजन्मनि यस्य मुदन्विता, निरयवासगता असुशालिनः । सुरवरासनमाचलतां गतं, तमभिनौम्यजितं हयचिह्नितम् ॥१॥ (द्रुतविलम्बितवृत्तम्) भविजनाम्बुजभासनभास्करो, भुवनबान्धव ईहितदायकः । प्रणतवासवचक्रिनृपावलि-विजयतामजितोऽत्र जिनाधिपः ॥२॥