________________
१४२
श्रीविजयपद्मसूरिविरचितः
॥ १. मङ्गलाचरणम् ॥
योऽर्च्यः शक्रफणीन्द्रकृष्णवरुणाद्यैर्भूरिसंवत्सरानाचार्याभयदेवदेदसुधियौ यस्याऽनुभावात् क्रमात् । लेभाते गदविघ्नशान्तिमतुलां श्रीहेमचन्द्रप्रभुदीक्षास्थानविराजितं घनरुचिं श्रीस्तम्भनाधीश्वरम् ॥१॥ वाचं तीर्थकृतां समस्तसुगमां संशीतिसार्थापहां, स्थानाङ्गातिशयैर्महर्षिसुलभैश्चङ्गैर्युतं पञ्चभिः । स्वीयान्यागमतत्त्वबोधकमहातीर्थोदयाधायकं, सङ्घस्तुत्यजगद्गुरुं मदधिपं श्रीनेमिसूरीश्वरम् ॥२॥ वन्दित्वा रचयामि हृष्टहृदयो जैनेन्द्रस्तुत्यादिकैर्भावैः सङ्कलितं सदर्थललितं श्रीस्तोत्रचिन्तामणिम् । प्राचीनानि बहूनि यद्यपि महास्तोत्राणि मुद्दानि मामस्मिन् प्रेरयति प्रमाणरहिता भक्तिस्तथापि प्रभोः ॥३॥