________________
श्रीस्तोत्रचिन्तामणिः
१४५
॥ श्रीसम्भवनाथ-चैत्यवन्दनम् - २ ॥
जितारिनृपसेनाया, नन्दनं शान्तिदायकम् । अश्वलञ्छनमर्हन्तं, प्रभुं श्रीसम्भवं स्तुवे ॥१॥ (अनुष्टुब्वृत्तम्) कल्याणवर्णसद्देह, सहस्राम्रवने वरे । सहस्रपरिवारेण, प्राप्तदीक्षं महोदयम् ॥२॥ कार्तिके कृष्णपञ्चम्यां, केवलज्ञानशालिनम् । जगदुद्धारकर्तारं, तृतीयं तीर्थपं स्तुवे ॥३॥ गुणस्थानकसोपान-संप्राप्तोत्तमसम्पदम् । पूर्वाणि षष्ठिलक्षाणि, यस्याऽऽयुनौमि तं विभुम् ॥४॥
॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् - १ ॥ दिव्यं सुखं यो विजये विमाने-ऽनुभूय प्रान्ते च भवे विनीता (शुभायाम्) । पुर्यां शुभे संवरभूपवंशे, ज्ञानत्रयीयोगविराजितो यः ॥१॥ (उपजातिवृत्तम्) माघे द्वितीयादिवसे च शुक्ले, मातुः सुकुक्षावततार वर्ये (क्षाववतारमाप)। क्षणे त्रिलोकीकृतमोदमाल-स्तं नौमि तीर्थाधिपतिं चतुर्थम् ॥२॥ विज्ञाय यस्योद्भवमिन्द्रदेवा, आजग्मुरीशं मुदिता प्रणन्तुम् । तेन प्रसिद्धा स्वभिनन्दनाख्या, कपिध्वजं तं प्रणमामि भक्त्या ॥३॥
॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् - २ ॥ यद् ध्येयं यद् दराराध्यं, यच्च कातरदुर्लभम् । तच्चित्पूर्णपदं प्राप्त !, जय त्वमभिनन्दन ! ॥१॥ (अनुष्टुप्वृत्तम्) दूरस्थोऽपि जगन्नाथ !, त्वन्नामस्मृतिकारिणः । निधौताघमला भव्या, लभन्ते परमं पदम् ॥२॥ त्वद्विम्बध्यानलीनोऽयं, किङ्करोऽस्मै समर्पय । सात्त्विकानन्दसन्दोहं, त्वन्निभत्वं भजेद् यतः ॥३॥
॥ श्रीसुमतिनाथ-चैत्यवन्दनम् - १ ॥ सुस्नापितोऽमरगिरौ निजजन्मकाले, यो वज्रिभिर्विविधसत्कलशैः प्रदीप्रैः । कल्याणकेषु मुदिताश्च चतुर्षु यस्य, श्वभ्राङ्गिनोऽपि प्रभवन्ति विकासभाजः ॥१॥
(वसन्ततिलका) नाथ ! त्वदीयचरणाब्जमसेवमानो, बभ्राम भीषणभवेऽहमनन्तकालम् । भाग्योदयेन नृभवं समवाप्य भावाद्, भव्यार्चनां विदधतः कुरु मेऽथ रक्षाम् ॥२॥