________________
१३७
स्तोत्रभानुः
वक्त्राद् विनिर्गतगभीरतरस्वनौघ-तुल्यीकृतामृतपयोधितरङ्गनाद! । प्रज्ञाऽधरीकृतसुरेन्द्रगुरो! महौजः !, श्रेयःश्रियं मुनिप! नो वितनु त्वमाशु ॥२९॥ मिथ्यात्वपुद्गलधरातलदारणौन-सीरायमाण ! जिनदर्शनबीजवप्तः ! । मालायमान ! हृदये जिनशारदाया-स्त्वामीश! सूक्ष्मसुमते ! सततं स्तवीमि ॥३०॥ सद्बुद्धिवृद्धिसुलताम्बुद ! नेमिसूरे !, स्याद्वादभृत्सुमतिसिन्धुविधो! यशोऽरम् । त्वदर्शनादुदयमेति नयप्रतापं विज्ञानसिद्धिविजयं जनता सुऋद्धिम् ॥३१॥ कीर्तिप्रभावकुसुमाचितपद्मनेत्र!, वैराग्यचन्दनविलेपनलिप्तचित्त! । स्तोत्रं गुणामृतभृतं तव भक्तिरागा-ल्लावण्यधाम ! रचितं च मया निधानम् ॥३२॥ आपुष्पदन्तमिदमद्भुतभावशोभि, स्तोत्रं सदा मतिमतां हृदयं प्रभायात् । भव्यात्मनां भुवनदीपकनाम तेषां, प्रज्ञाभिनन्दनवरं हृदि ये धरेयुः ॥३३।।
॥ ७. श्रीमद्गुर्वष्टकम् ॥
विज्ञाय संसारमनित्यमाशु, त्यक्त्वा समस्तं भवदुष्टभोगम् । दधार साधुव्रतमिन्द्रपूज्यं, यस्तं सुभक्त्योदयमानतोऽस्मि ॥१॥ (उपजातिः) अनन्तसौख्यग्रहणे सुयत्नं, दशप्रकारव्रतिधर्मयुक्तम् ।। स्फू त्सुमेधाकिरणप्रभान्तं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥२॥ नयप्रमाणागमधारिमुख्य-माज्ञां गुरूणां सततं धरन्तम् । मेधावदोघप्रणतं जयन्तं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥३।। चारित्रचिन्तामणिरक्षणाय, सदाप्रयासं करुणानिधानम् । गुणाकरं संयमिपूगपूज्यं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥४॥ तपःप्रशस्तोरुघनं मुनीन्द्रं, सम्पन्नगाम्भीर्यमनल्पबोधम् । विज्ञह्मसन्दोहनिशाधिनाथं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥५॥ स्याद्वादसिन्धूल्लसनोडुनाथं, प्रमोदपाथोधिवरं सनाथम् । प्रमादपाथोजहिमं महान्तं, गुरुं सुभक्त्योदयमानतोऽस्मि ।।६।। विज्ञानसौभाग्यधरप्रवीणं, गुङ्ग्रिसैवैकनिविष्टचित्तम् । भव्योपकारं रचयन्तमाशु, गुरुं सुभक्त्योदयमानतोऽस्मि ॥७॥ विशारदग्रामनभस्तमोरिं, सद्बोधिबीजोद्भववारिवारम् । सद्बोधदायिप्रवरं सदाऽहं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥८॥ निरारम्भवातं विमलतरवैराग्यजलधि, गुणग्रामस्थानं मदनवनवह्नि कृतधियम् । कृपापूर्णस्वान्तं नयगममहाम्भोधिभपति, स्तुवेऽजस्रं भक्त्या सुगुरुमुदयं स्फारधिषणम् ॥९॥