________________
१३८
श्रीविजयनन्दनसूरिविरचितः
॥ ८. प्रशस्तिः ॥
नाऽस्त्येव सुन्दरतरा बहुकल्पनाऽत्र, नाऽस्त्येव शब्दरचना जनतोषदात्री । ग्रन्थो लघुस्तदपि भक्तिवशाज्जिनस्य, निर्बुद्धिना शिशुहिताय मया कृतोऽयम् ॥१॥ नेत्रर्षिनिधिचन्द्राङ्के (१९७२), वर्षे भक्त्या गुरोरयम् । नभसः सितसप्तम्यां ग्रन्थः पूर्णीकृतो मया ॥१॥
।। इति श्रीज्ञातनन्दन-चरमतीर्थकृन्महावीरशासनपूर्वाचलोष्णमयूखसधर्मसुधर्मचिन्तामणिदेशक-समीपसंसारसिन्धुपार-सकलशास्त्रज्ञशिरोमणि - न्यायनीरनिधिप्रकाशनविधुनिसर्गप्रशान्तभुवनप्रसिद्ध - मिथ्यात्वसान्द्रध्वान्तवितानप्रणाशसहस्रकिरण- कारुण्यमीनाकरशारदौपधीश्वरमुखधामभविभव्यधाम-विद्वद्वरभ्रमर भारपूजितप्रशस्तपादपद्मद्वैत-स्वगीर्मेघकवरञ्जित
गुणगणधरवरजगद्बन्धुजगद्धितकारक- तपोगच्छगगनग्रहाधिपपवित्र
भव्यनीलकण्ठसमूह-विस्मृतस्मारस्मारस्वरूपस्मरस्वाहापतिज्वालजलसमाज
चरित्रपरमपूज्यसंविग्नशाखीयभट्टारकाचार्यश्रीमद्विजय
नेमिसूरिचरणाम्भोजभ्रमरायमाणानुयोगाचार्यपन्यासोदयविजयग
णिशिष्यमुनिनन्दनविजयविरचितोऽयं
॥ स्तोत्र भानुग्रन्थः समाप्तः ॥ श्रीरस्तु ॥