________________
१३६
श्रीविजयनन्दनसूरिविरचितः
अन्धीकृताखिलजगन्मदनप्रगाढ - मेघप्रणाशपवमानप्रदर्शने ते । नेत्राम्बुजस्य भवतीश ! निमेषमन्द - पक्ष्मावलीह नयनद्वितयं जनानाम् ॥१२॥ नैसर्गधैर्यविजितामरशैलवर्गं स्फारप्रभासमतमीकृतचन्द्रकान्तम् ।
संस्मारकं च शिवतिथ्युडुवल्लभस्य, विस्मापकं तव विभाति गुरो ! ललाटम् ॥१३॥ नाथोज्ज्वलाङ्घ्रिगतिपूततरावनीक !, सत्यं मितं च सुहितं सुवचोरसं ते । पीत्वाऽमृतं खलु सुदुर्लभपानमाशु, धीजीवनस्त्रपित भव्यजनास्त्यजन्ति ॥ १४॥ नाथ ! प्रधीः कुमतिपर्वतभेदिकाया-स्त्वद्देशनारवमृगेश्वरगर्जनायाः । अज्ञानवादमदमत्तमहाकुतीर्थ - मातङ्गकास्तु सहसा सकला विनष्टाः ||१५|| गम्भीरतारसभृता तव देशनागी-र्मेघावलीध्वनिरिवाऽहिभुजः सुभव्यान् । सम्यक् प्रमोदयति सारविचारधारा, प्रौढाशयप्रकटपुण्यगुणप्रकाश ! ॥१६॥ संसारकूपपतनार्त्ततरां विमुग्धां रक्षन्ननन्यगतिकां जनतां मुनीश । भारण्डपक्षिवदिलावलयेऽप्रमत्तः स्वामिन् सदा विचरसि प्रहतस्पृहारे ! ||१७|| स्याद्वादभासक! सदोदय ! शर्मधाम ! निर्यामकं गहनसंसृतिवारिराशौ । सच्छासनं प्रमितिभङ्गनयोपशोभि, शश्वत् प्रदीपयसि दीप्तविभ ! व्रतिस्त्वम् ॥१८॥ भो! देहभाक्प्रकर! यत्स्फुरितप्रभावा-न्मिथ्यात्वसान्द्रतिमिरं व्रजति प्रणाशम् । तन्नामदीप्रकरदीपमजस्रमस्य, सेवस्व सूरिप्रवरस्य सुभक्तिभावात् ॥१९॥
त्वत्तः प्रविज्ञ ! हिमसानुमतो मुनीश !, कल्याणफुल्लफलिवृन्दविभूषिताङ्गात् । जाता वरा जगति निर्मलकीर्तिगङ्गा, सर्वा दिशोऽकृत कृतिन् ! परमाः पवित्राः ॥२०॥ लोकप्रसिद्धतरवर्यकुलावतंस - कोटीश्वरप्रकरपूजितपादपद्म ! ।
बुद्धिप्रभावकृतदुष्टमताभिषङ्ग ! पूज्यो मुनीश ! सततं जगतीतले त्वम् ॥२१॥ वैराग्यवारिनिधिभासनशीतभानो!, संसारतारक! सदाप्तसमूहसेविन् ! । चारित्रभास्वरवरायुधमात्तमाशु, नाथ! त्वया खलु विमोहरिपुं प्रहन्तुम् ||२२|| स्थाने प्रमोदमपरे न जना लभन्ते, कृत्वा मुने! गुणनिधान! सुदर्शनं ते । ग्रीष्मे विहाय सुभगां रवितापतप्त - श्छायां सुगन्धिफलिनो दहनं किमिच्छेत् ॥२३॥ सद्बोधदायककिरीट ! मुनीश ! सम्यग् धी श्रीमदोघनुतपादपयोजयुग्म ! | सर्वात्मना विमलशर्मभृता कृपाश्री-र्योगीश ! ते हृदि कजे द्युतिते विभाति ||२४|| अन्ये स्मरन्त्वपरमप्यहमिज्यबुद्ध्या, त्वामेव नाथ ! हृदये विशदे स्मरामि । धाराधरं ननु विहाय न नीलकण्ठः, पृथ्वीतलेऽपि निखिले भजतेऽन्यमीश ! ॥२५॥ मुद्धाम ! धामनलिनीशसम ! त्वयीन!, नाऽस्त्येव किञ्चिदपि योगिपते ! जडत्वम् । स्पष्टप्रकाशितमयूखसमूहसूर्ये, ध्वान्तस्थितिस्तु नहि किञ्चिदपि प्रभाते ||२६|| सन्तीह नाथ ! बहव: परवादिनोऽपि त्वं त्वेक एव शिवदोऽनृतवादहीनः । भूयिष्ठभानि दिवि सन्ति तथापि शश्व - च्चन्द्रेतरो न वितनोति चकोरहर्षम् ||२७|| अन्धीकृताखिलकुतीर्थिकघूकसङ्घ-फुल्लीकृताखिलचतुर्विधसङ्घपद्म! । दूरीकृताखिलजगज्जनसङ्घनान्ध !, योगिंस्त्वमत्र तरणे! जयतादभीक्ष्णम् ॥२८॥