________________
स्तोत्रभानुः
१३
॥ ६. भुवनदीपकस्तोत्रम् ॥ ( श्रीमत्परमगुरुविजयनेमिसूरि-द्वात्रिंशिका)
यद्वाक्प्रफुल्लितकजे रतमय॑भृङ्गे, सत्योष्णरश्मिकिरणप्रतिभासमाने । पूर्वाभिरूपसुवृता द्रुतसिद्धिलक्ष्मी-र्वीतान्तरामनुपमस्थितिमभ्यकार्षीत् ॥१॥ (वसन्ततिलका) भृङ्गव्रजोत्कटविनोदभरप्रदातुः, संफुल्लितस्य जलजस्य मनोज्ञशोभा । संस्मारिता ननु जवेन यदास्यभाभिः, संस्मारितश्च वरपौर्णिमशीतभास्वान् ॥२।। विश्वाभिरूपनिचयाभिनतोत्तमाङ्ग-श्रेणीजिनेन्द्रवरशासनमौलिभान्ती। स्पर्शेन यस्य विमलस्य पदस्य पूता, स्तोष्यामि तं व्रतिपतिं किल नेमिसूरिम् ॥३।।
(त्रिभिविशेषकम्) ज्ञातुं कृतीज्य ! तव किञ्चिदपि स्वरूपं, शक्ता न संयमिपते ! जडबुद्धयस्तु । जानाति रूपमिभबालतरो वतिन् ! किं, कण्ठीरवस्य नगभेदकगर्जनस्य ॥४॥ पारं तवाऽमलमते ! गुणवृन्दसिन्धो-र्योगीश्वरेण खलु वीतमदेन गम्यम् । निर्बुद्धिरेतुमधिपो द्रुफलं कुतोऽहं, प्राप्नोति किं विमतिवामन ! उन्नताप्यम् ॥५॥ धीमन्मुने! गतधियं तव भक्तिरेव, स्तोतुं प्रयोजयति मां भवरक्षक! त्वाम् । प्रावृष्यतीव सुनटन्ति कलापिनो यत्, तद् गजदम्बुदरवश्रवणैकजन्यम् ॥६।। अल्पाशयेन तव नाथ! मयोच्यमानं, स्तोत्रं धरिष्यति हृदि प्रवराशयोऽपि । क्षीराब्धिमौक्तिकमदन्नपि राजहंसः, किञ्जल्कमत्ति किल कर्दमजस्य किं नो ॥७॥ आराद् भवान् प्रवरशान्तरसाम्बुराशि- मैव ते तदपि लोकहितं विधत्ते । दूरस्थितार्ककिरणैररविन्दबन्धा-न्मुक्ता न कि मधुकराः सकला भवन्ति ।।८।। त्वय्येव सन्ति निखिला विमला गुणौघा, अत्राऽद्भुतं न किमपि प्रविकस्वरास्य! । प्राची दिशं नहि विहाय सहस्रभानुः, स्फूजत्प्रभाप्रकरकोऽन्यदिशं वृणोति ॥९॥ रूपेण कामसदृशोऽप्यभिभूतकाम-स्थामा त्वमद्भुतशमः समभावदातः ! । त्वामिष्टदेवविटपिन् ! ननु सर्वकामो, दृष्ट्वैव याति सहसा परिपूर्णभावम् ॥१०॥ श्रेणीकृतामलयशो! विबुधप्रवीण!, योग्यर्च्य ! शश्वदुदयस्य महाप्रताप! । उद्गच्छदब्जभरवल्लभताम्रपादा, पादस्य ते नखततिः सततं विभाति ॥११।।