________________
१३४
श्रीविजयनन्दनसूरिविरचितः
गताश्रवं पञ्चमहाव्रतेशं, रत्नत्रयस्वामिनमाशयाब्धिम् । श्रेयस्करं जन्मपयोधिपोतं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥१३।। जिनेशसिद्धान्तविचारदक्षं, तीर्थङ्करादिष्टकरं मुनीशम् । कषायसङ्घक्षणदाश्ववाहं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥१४॥ समस्तविश्वे ततसाधुवादं, भक्ते च शत्रौ समभावदृष्टिम् । आनन्दभङ्गप्रभृताम्बुराशि, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥१५।। विज्ञाम्भोजावासहंसायमानो, विश्वाम्भोजोद्बोधहंसायमानः । शर्माम्भोजोद्भेदतोयायमानः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥१६।। (शालिनी) निस्तन्द्रौघो जैनधर्माम्बरार्कः, शीतांशूर्जा मुक्तिमार्गप्रदर्शी । प्राज्ञप्रार्यो मुक्तसंसारलीलः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥१७|| श्रेयःसिन्धुः स्फारशीलप्रभावो, भास्वद्विद्यः प्रास्तमानप्रयासः । आशुप्रज्ञो धैर्यकेणाऽद्रितुल्यः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥१८॥ गाम्भीर्येणाऽम्भोधितुल्यो मुनीन्द्रः, कारुण्याब्धिः शुद्धधर्मस्य वक्ता । स्फारज्ञानो भव्यकल्याणहेतुः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥१९॥ सत्त्वाधारो योगिनक्षत्रचन्द्रः, शास्त्राब्धीन्दुर्वीतसर्वस्पृहौघः ।
फुल्लाब्जास्यः शुद्धवैराग्यसिन्धुः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥२०॥ यस्य प्रौढतमप्रतापतपनः शश्वद् भुवि भ्राजते, यस्याऽत्र्यम्बुजमातनोति भविनामानन्दभङ्गव्रजम् । यस्य ज्ञानमृगेश्वरेण परवादीभाः प्रणष्टा द्रुतं, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२१॥
(शार्दूलविक्रीडितम्) यस्याऽभ्रेण समं वचो नयगमस्याद्वादयुक्तं वरं, भव्यप्रावृषिकप्रमोदमतुलं नित्यं विधत्ते भृशम् । यस्याऽतुल्यमरं यशः क्षितितले सर्वासु दिर्गतं, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२२।। सेव्यश्रीगुरुराजवृद्धिविजयः प्रज्ञाः सदा यं श्रिताः, सम्यग्बोधसरिच्छिलोच्चयवरः स्याद्वादपाथोनिधिः । अन्तेवासिमधुव्रतश्रितपदाम्भोजः प्रशस्तक्रियो, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२३॥ दिव्यक्षेमनिधिविशुद्धचरणो वाचंयमेशाग्रणीः, स्फाराः पूर्वयुगप्रधानविधृताः सर्वे गुणा यं श्रिताः । स्याद्वादाम्बुनिधिप्रभासनविधुर्भूमीश्वराय॑ः सदा, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२४|| गुर्वादेशधरो महाव्रतिधरो गाम्भीर्यरत्नाकरो, मेधाविप्रवरो हतानृतभरो भव्यात्मभद्रङ्करः । गच्छैश्वर्यधरो महाभयहरः फुल्लास्त्रदावाशरो, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥२५॥ यत्स्तोत्रपाठकरणेन महाभयञ्च, याति प्रणाशमखिलाघमरं जनानाम् । तन्नेमिसूरिचरणाम्बुजयुग्ममर्थ्य, संसेव्यतां भविजनैः सततं पवित्रम् ॥२६।।