________________
स्तोत्रभानुः
१३३
॥ ५. श्रीविजयनेमिसूरि-पञ्चविंशिका ॥
विहाय सर्वं प्रभवोपभोग-मादाय रम्यं शिवदं व्रतित्वम् । य आप सर्वागमपारमाशु, श्रीनेमिसूरि सततं स्तुवे तम् ॥१॥ (उपजातिः) विदग्धपद्माकरराजहंसं, विदग्धदोषौघविशालदावम् । अखण्डभूव्याप्तवरप्रतापं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥२॥ वितन्द्रिपङ्क प्रविमुक्तदारं, जगज्जनप्रावृषिकाभ्रवारम् । स्वदेशनारञ्जितभव्यभारं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥३॥ समस्तनिक्षेपनयाम्बुनाथं, स्फुरद्विवेकं स्फुटशर्मगेहम् । चारुव्रतं त्यक्तविलासवृन्द, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥४॥ उदारबुद्धि वचनप्रसिद्धि-मासन्नसिद्धिं भुवनप्रसिद्धिम् । विज्ञानदीप्तिव्रजसुप्रदीप्तं, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥५॥ उद्दामकन्दर्पहुताशपाथो-ऽभिरूपसङ्घाभ्रदिनेशमेकम् । प्रमादसारङ्गमृगेन्द्रराजं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ।।६।। भव्यात्मभृङ्गोरुसमूहसेव्य-पादारविन्दद्वितयं मुनीन्द्रम् । सूर्यांशुशोभं सुकलापयोधि, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥७॥ संसारसेतुं जिनधर्मकेतुं, प्रभासमानं प्रतिभासमानम् । मुनीश्वरं पौर्णिमचन्द्रवक्त्रं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ।।८।। कामारिसम्बोधमहाप्रवीरं, सम्बोधपाथोधिमुदारवृत्तिम् । व्यतीतमानं विगताभिलाषं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥९॥ प्रवीणसन्दोहसुधांशुमन्तं, प्रणष्टसन्देहभरं कृतान्ते । सत्यस्वरूपाश्रयणप्रगल्भं, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥१०॥ भव्याङ्गिनां सर्वसमीहितौघ-प्रसिद्धिपाथोजपयःसमूहम् । सुकेतकीपत्रसमाक्षियुग्मं, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥११॥ स्वशोभया चन्द्रकलां बिभर्त्ति, यस्तिग्मभारङ्घिनखश्रियं तम् । सर्वाङ्गिकारुण्यमहासमुद्र, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥१२॥