________________
१३२
श्रीविजयनन्दनसूरिविरचितः
[श्रीवासुपूज्यो जयतात् स नित्यं, यत्पादपद्माश्रयणेन बाढम् । संसारपीडादितजन्तुजातः, कैवल्यपद्मां लभते नितान्तम् ॥१२॥] अघद्रुमोन्मूलनवारणेन्द्रः, संसारकान्तारसुसार्थवाहः ।। भवाब्धिपोतो विमलप्रबोधः, श्रियेऽस्तु नित्यं विमलप्रभुः सः ॥१३।। अपारजन्माम्बुनिधि प्रतीर्य, यः प्राप मुक्तिं त्रिजगत्प्रसिद्धाम् । अनन्तशक्तिं तमनन्तनाथं, नित्यं स्तुवेऽनन्तगुणेष्टगेहम् ॥१४।। मोहारिजेताऽखिलभाववेत्ता, सद्धर्मदाताऽक्षयमुक्तिधाता । भव्यान् सुपाता रविवत् सुभाता, श्रीधर्मभर्ताऽस्तु सुखौघकर्ता ॥१५।। क्षीराब्धिजेत्रा वरशान्तिवारा, यः सिञ्चति प्राणिसुखाम्रिपालीम् । स शान्तधामा वरशान्तिधाम, श्रीशान्तिनाथोऽस्तु सदैव शान्त्यै ।।१६।। तिरस्कृतार्कोजसमीतरागं, श्रीकुन्थुनाथेश्वरमाप्तमुक्तिम् । सुरासुरेन्द्रं व्रतितारकेन्दुं, जितान्तरारि सततं तमीडे ॥१७॥ विज्ञातनिश्शेषपदार्थभावं, महेन्द्रमालानतमाप्तसिद्धिम् । सुदर्शनापत्यसुदर्शनं तं, स्तुवेऽरनाथं जगदेकनाथम् ॥१८॥ शमासिना प्राहतमोहवीरः, सुमुक्तिपूर्वाचलवासरेशः । श्रिये स मल्लीश्वर इष्टदायी, वल्लिप्रसिद्धोऽभयवल्लिरस्तु ॥१९।। सुमित्रजातं वरकच्छपाङ्क-मनादिकर्माटविचैत्यचित्यम् । तं सुव्रतीन्द्रं मुनिसुव्रतेशं, नमाम्यहं नष्टककष्टकष्टम् ॥२०॥ मुक्तिं ययौ तीर्थकरो नमिर्यो, विहाय संसारविलासवासम् । भव्याभयोद्यानसुवर्षवर्ष, तं पूर्णचन्द्राननमानतोऽस्मि ॥२१॥ राजमतीमिन्दुमुखीं विहाय, मुदाऽऽप यो मुक्तिमनोज्ञकान्ताम् । गुणाकरं दोषकरीन्द्रसिंह, श्रीनेमिनाथं सततं स्तुवेऽहम् ॥२२॥ दिष्टप्रबोधासमहस्तरत्नं, प्राप्तुं भृशं मुक्तिफलं विशालम् । तपोऽतुलाभूषणभूषितं तं, सदा जयन्तं प्रभुपार्श्वमीडे ॥२३।। दिवौकईशानकिरीटनम्या, तपोंऽशुमत्तैजसिकाभिभान्ती । सुखावलीपद्मजलावली सा, श्रियेऽस्तु वीराङ्घिनखावली वः ॥२४।। कृतिवज्रेज्यवतिनेमिसूरि-शिष्याभिरूपोदयनन्दनेन । नता मता मुक्तिरताः स्तुतास्ते, श्रिये भवन्त्वाशु जिनाः सदा वः ॥२५।।
8