________________
स्तोत्रभानुः
१३१
॥ ४. श्रीचतुर्विंशतिजिनस्तवः ॥
विज्ञातसर्वात्ममनःस्थभाव-मुक्षाङ्किनं प्राप्तभवाब्धिपारम् । हतोपसर्गव्रजमादिनाथं, नमामि नाभेयमनन्तवीर्यम् ॥१॥ (उपजातिः) प्रणीतधर्माणमपेतदोषं, बिन्दूकृतापारभवाम्बुराशिम् । व्याप्तप्रतापं भुवनेऽजितं तं, स्तवीमि नित्यं भुवनत्रयेशम् ॥२॥ श्रीजैनधर्माम्बरसप्तवाहं, भव्यात्मनां पापभरं हरन्तम् । जितारिजातं जिनसम्भवेशं, सदैव मोक्षाधिपतिं स्तुवेऽहम् ॥३॥ मुक्तीश आनन्दसरस्सु हंसः, श्रुतार्णवेन्दुस्सुखदायिनाथः । स तीर्थकृद् देवनरेशपूज्यो-ऽभिनन्दनस्ताद् भविनां हिताय ॥४|| भव्याङ्गिनां नेत्रमयूरमेघ ! देवाधिदेवाभिमतेतमोह! । भव्योपकारिन् ! सुमते! यतीन्द्र!, भव श्रिये त्वं सुमतिप्रवाह! ॥५॥ ययावनन्ताचलमुक्तिवासं, यस्तं महामोहवनीहुताशम् । प्रबोधपद्मार्कमधीशपद्मं!, सदा नमामि द्युमणीन्दुनम्यम् ॥६॥ आखण्डलासेवितपादयुग्म !, विशुद्धवाग्भृद् ! वरमुक्तिवास ! । कृतान्धविश्वं मदनं विजेत-र्जय प्रभो! नाथ! सुपार्श्व! नित्यम् ॥७॥ भव्यारविन्दार्यमणं जिनेन्द्रं, स्ववीर्यवीरेण जितेन्द्रियं तम् । मोहानलाम्भोधरमिन्दुभासं, चन्द्रप्रभं देवनरेशमीडे ॥८॥ शान्त्यालयं यद्वपुरर्जुनार्चि-स्तिरस्करोतीन्दुमपीन्द्रपूज्यम् । सुग्रीवसूनुं सुविधिप्रभुं तं, स्तवीम्यहं प्राप्तवरप्रभुत्वम् ।९।। आनन्दपद्माकरराजहंसो, लेभे वरं मुक्तिनिकेतनं यः । यद्दर्शनान्नश्यति पापतापः, स वः श्रिये शीतलशीतलोऽस्तु ॥१०॥ जनाभिलाषं प्रपिपति यस्तं, सुरासुरेन्द्राश्रितपादपद्मम् । श्रेयोनिकायं सुखसागरेन्दु, श्रेयांसनाथं सततं स्तवीमि ॥११।।*
* प्रथमावृत्तौ द्वादशः श्लोको न मुद्रितः - सं. ।