________________
१३०
॥ श्रीनेमिनाथस्तुतिः ॥
गत्वा गिरीन्द्रं गिरिनारमाप्त्वा, वरव्रतं देवनरेन्द्रपूज्यम् ।
मुक्तिप्रियां स्नेहभराद् य आप, स नेमिनाथोऽवतु विश्वभव्यान् ॥१॥ (उपजाति:)
ये कर्मसङ्घं जलदं महान्तं, जहुः स्ववीर्यातुलवायुवृन्दैः । ते सिद्धिसौधप्रतिभासमानाः सुरासुरस्तुत्यजिना जयन्ति ॥२॥ प्रदग्धदोषौघविशालदावं, नीतिप्रमाणप्रथितार्थतत्त्वम् । मिथ्यान्धकारार्यमणं सदैव, जैनागमं श्रेष्ठमहं स्तवीमि ||३|| सम्यक्त्वरत्नं प्रमुदा धरन्ती, त्रिशूलधात्री वरसङ्घपात्री । सा कामितौघं परिपूरयन्ती, देव्यम्बिका शर्म सदा प्रदत्ताम् ॥४॥
•
श्रीविजयनन्दनसूरिविरचितः
॥ श्रीपार्श्वनाथस्तुतिः ॥
दृढतमतमवारं दुःखभारं हरन्तं, निखिलभविकचेतः पङ्कजं पुष्पयन्तम् । जगति तततपोंऽशुं कर्मरात्रेररातिं, भविहृदयखवासं स्तौमि तं पार्श्वभानुम् ॥१॥ ( मालिनी) चुलुककृतभवाब्धि संसृतौ प्रभ्रमन्तं, जननिकरमवन्तं मुक्तिमार्गं दिशन्तम् । विदितभुवनभावं भावसिन्धौ सुनावं, जिनवरतरवारं नौमि विश्वैकसारम् ॥२॥ अमितगमनिवासं गूढतत्त्वप्रकाशं, विहतसकलदोषार्हन्मुखाब्जप्रसूतम् । गहनतरमपारं भव्यभृङ्गालिसेव्यं, शमरसपरिपूर्णं जैनसिद्धान्तमीडे ॥३॥ कनकसमसुकान्ते ! भव्यभव्यं धरन्ति, वरतरफणिपीठे ! नित्यमभ्रे चरन्ति ! | श्रिततमजिनपार्श्वे विघ्नवारं हरन्ति !, अतुलममलभद्रं देहि पद्मावति ! त्वम् ||४||
•
॥ श्रीवर्द्धमानजिनस्तुतिः ॥
शच्यः स्नापितवत्य आर्यकलशैर्जन्मोत्सवे यं मुदा, प्राप्तानन्तसुखस्स कम्पिततराद्रीशानहेमाचलः । देवेन्द्रादिसुपूजितोऽन्तिमजिनो वीरो विभुस्सर्ववि - मोहाम्भोजहिमः प्रबोधकुमुदेन्दुः पातु वः सर्वदा ॥१॥ (शार्दूलविक्रीडितम्)
भव्यस्वान्ततमौघनागहरयस्सर्वज्ञतीर्थङ्करा, विश्वेशाः करुणामृतार्द्रमनसः श्रेयोनदीना जिना: । भातज्ञानदिनेश्वरा वरतरा नित्यं सुमद्रङ्कराः सर्वे तेऽभिजयन्तु देवमनुजाधीशाभिपूज्याः सदा ||२|| मिथ्यात्वक्षितिदारणोत्कटहलिः सत्योत्पलार्कोपमा, मुक्त्यागारसुकुञ्चिका जिनधृता दुर्मोहनिद्राहरा । भव्यारामघनावली सुगुणिनी स्याद्वादिनी शाश्वती, जैनी वाग् भविकाघसिन्धुमथनी वोऽस्तु श्रिये सर्वदा ||३|| श्रीवीराङ्घ्ङ्ग्ररविन्दभृङ्गिजनताविघ्नाग्निमेघावलि !, सम्यक्त्वाभरणेन शोभितवरे ! सुश्वेतदन्तावले ! । सिद्धादेवि ! सुगोपिके ! जिनवराज्ञायाः सदेष्टार्थदे !, भव्येभ्योऽभयदे ! सदा सुखनिधे ! दत्तान्न इष्टं द्रुतम् ॥४॥