________________
स्तोत्रभानुः
१२७ प्रज्ञावन्तं शान्त्यागारं शीतांश्वास्यं देवेन्द्र, संसाराब्धौ मत्यौघानां बाढं पारं नेतारम् । अर्हन्नाथं गीर्भर्तारं विश्वाम्भोजे मार्तण्डं, कारुण्याब्धि मल्लीशं तं नित्यं भक्त्या सेवेऽहम् ॥२॥ वीताघाभ्रः सर्वोत्कृष्टो दुस्तीर्थोघाप्रत्यक्षो, येन प्राप्तो ज्ञानार्को द्राग् लोकालोकोद्भासी सः । सौभाग्यश्रीः कल्याणायाऽस्त्वाशु प्रज्ञो भव्यानां, नन्दावासो दग्धद्वेषो लोकाग्रस्थो मल्लीशः ॥३॥
॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ मुक्तिकासारचक्राङ्गो, विश्वेशो मुनिसुव्रतः । रक्षतु प्राणिनो भव्यान्, संसारामयपीडितान् ॥१॥ (अनुष्टुप्) तपोऽनिलस्य वेगेन, दूरं मोहघनाघनम् । कृत्वा यः प्राप विज्ञान-सप्तवाहं विभासिनम् ॥२॥ यद्वचोऽम्बु मलं हन्ति, कर्मग्रामं च देहिनाम् । कच्छपाक़ जनवाता-नन्दनं स्तौमि तं सदा ॥३।। युग्मम् ।।
॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥ अचिन्त्यरूपं समविश्वसारं, जितेन्द्रियारिं वरशान्त्यगारम् । सुखद्रुमारामपयोदवारं, तमाप्तसंसारपयोधिपारम् ॥१।। (उपेन्द्रवज्रा) श्रुताम्बुजाम्बूपममीतमोहं, प्रमादशत्रुप्रविनाशवीरम् । सुराधिदेवं विगताभिलाषं, नमामि नित्यं विजयाङ्गजातम् ॥२॥ युग्मम् ॥ प्रभासमानो भुवनत्रयेषु, प्रभासमानः सुरनाथनाथः । तनोतु सौख्यं भविनो नमीशः, सनन्दनः सर्वजनाभिवन्द्यः ॥३॥
॥ श्रीनेमिनाथ-चैत्यवन्दनम् ॥ सकलसुखनिदानं विज्ञवारप्रधानं, कृतवृजिनविनाशं वीतसंसारपाशम् । विधुसममुखभासं मोक्षलक्ष्मीनिवासं, त्रिभुवनजननाथं स्तौम्यहं नेमिनाथम् ॥१॥ (मालिनी) शुचितरपदपद्मोत्कृष्टकल्याणसद्म!, गिरिवरगिरिनारोद्भासिबिम्बांशुमालिन् ! । भविकदुरितपङ्कक्षालनाम्बूपम! त्वं, कृतमदनजयैधि श्रेयसे नेमिनाथ ! ॥२॥ सुरनरनुतपादाऽऽफुल्लिताम्भोजयुग्मं, सिततरयदुवंशाम्भोधिशीतांशुमन्तम् । भुवनतिलकमीशं शङ्खचिह्न जिनेन्द्रं, जिनपदजलमीनो नन्दनोऽहं भजामि ॥३॥
॥ श्रीपार्श्वनाथ-चैत्यवन्दनम् ॥ समा दृष्टिर्यस्याऽसुरसुरनरेशे च कमठे, गतस्तूर्णं पारं भवजलनिधेर्गाढगहनम् । अपारे संसारे विषयपरिषत्पीडितजनान्, स नाथः श्रीपावो जिनवरपती रक्षतु सदा ॥१॥ (शिखरिणी)