________________
१२६
श्रीविजयनन्दनसूरिविरचितः अनुपमगुणो भव्यौघानामनादिभवापहः, समकलशरच्चन्द्रोद्भासाननोऽसमसौख्यदः । परमविमलं सिद्धिस्थानं सुशोभयिता विभु-र्भवतु हितकृद् भव्यताते स आप्त उदारधीः ॥२॥ शमसलिलतश्शान्तोद्दामोरुकामहुताशनः, सुरपतिनताथ्यब्जद्वन्द्वस्सदाप्तवरो विभुः । सकलजनताभद्रङ्कारी त्रिविष्टपनायको, जयतु सततं धर्मेशानो जगज्जननन्दनः ॥३॥
॥ श्रीशान्तिनाथ-चैत्यवन्दनम् ॥ चन्द्रद्युत्युज्ज्वलशुचितरक्षीरसिन्धुं विशालं, तृन्दञ्छान्तिप्रवरजलधिः सौख्यरत्नप्रपूर्णः । भीष्मज्वालं प्रभवशिखिनं यस्य शीघ्रं ददाम, शश्वज्जीयाज्जिनवरवरः सोऽधिपः शान्तिनाथः ॥१॥
(मन्दाक्रान्ता) इष्टाब्जार्णस्त्रिदशविटपी नेह दृष्टस्तथापि, देवदुर्यद्वचनसलिलाद् वर्द्धितो धर्मरूपः ।। चित्ताभीष्टं शुभमतिमतां भव्यनृणां प्रदत्ते, पादद्वन्द्वं शरणमसमं तस्य शान्तेर्ममाऽस्तु ॥२॥ गाढं बद्धान् विषयजलजेऽनेकभव्यात्मभृङ्गान्, मुक्तान् कृत्वा विमलदययाऽस्थापयत् सिद्धिपद्मे । तारेशास्यो विदितसकलालोकलोकस्वरूपः, शीघ्रं भव्यप्रशिवतनिता सोऽचिरानन्दनोऽस्तु ॥३॥
॥ श्रीकुन्थुनाथ-चैत्यवन्दनम् ॥ भूतसंसृतिपयोधिपारक!, प्राप्तकेवलविभासितांशुमन् ! । सरनन्दन ! शिवप्रदैधि मे, त्वं जिनैव शरणं वरं सदा ॥१॥ (रथोद्धता) विश्ववन्ध ! सुखमन्दिरेश्वर !, रञ्जिताखिलजनौघ! केवलिन् ! । जन्मवाय॑वधिमेतुमाशु नः, शुद्धधर्मवरपोतदेशक! ॥२॥ शोभमान ! भुवनत्रये सदा, सुप्रतापजलधे! सुधीप्रद ! । कुन्थुनाथ ! जगदीश्वर ! प्रभो !, त्वां स्तुवे भविकवृन्दनन्दन ! ॥३।। (युग्मम्)
॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ अनन्तसौख्यास्पदसिद्धिगन्ता, नष्टाभिलाष: प्रगताभिमानः । धर्मोपदेष्टा वृजिनौघपेष्टा, कामारिदाता जनकामदाता ॥१॥ (इन्द्रवज्रा) आनन्दकल्लोलभृताम्बुराशि-हँसायमानः कृतिवारपद्मे । तीर्थङ्करो विश्वविभासमानो, नित्यं शिवायाऽस्त्वरनाथ एकः ॥२॥ युग्मम् ॥ विश्वत्रयव्याप्तवरप्रतापं, येनाऽऽश्ववाप्तं भुवनेश्वरत्वम् । प्राज्यप्रभावं च जिनाऽरनाथं, स्तौम्यन्वहं तं मुनिनन्दनोऽहम् ॥३॥
॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥ सद्धर्मेशं ज्योतीरूपं शुद्धाचारं लोकेशं, शश्वत् कृत्स्ने विश्वे व्याप्तं देवेन्द्रैनित्यं नम्यम् । संसारापत्तापार्तानां भव्यौघानां त्रातारं, कामाग्न्यम्भो मल्लीशानं सिद्धिस्थानस्थं स्तौमि ॥१॥
(कामक्रीडा)