________________
स्तोत्रभानुः
मुक्तिमार्गस्य देष्टारं, पेष्टारं कृत्स्नकर्मणः । विश्वविश्वस्य भर्तारं, कर्तारं भव्यशर्मणः ॥२।। नेतारं जन्मपारस्य, जेतारं मोहवैरिणः । श्रीश्रेयांसजिनं भक्त्या, स्तुवे तं विष्णुनन्दनम् ॥३॥ (त्रिभिविशेषकम्)
॥ श्रीवासुपूज्यस्वामि-चैत्यवन्दनम् ॥ शुद्धविज्ञानलक्ष्मीव्रजैर्वन्दितः, शर्मदो विष्टपेशामरेशानतः । कर्मसङ्घातशूरस्य सङ्घातको, वासुपूज्यस्तनोतु प्रसौख्यं सदा ॥१॥ (स्रग्विणी) सम्यगाखण्डलौघस्तुतार्कोदय-ज्योतिरथ्यब्जयुग्मस्य शर्मोदधेः । वासुपूज्यप्रभो मचिन्तामणिः, स्मर्यतां सर्वदा सर्वभव्यात्मभिः ॥२॥ पूर्णचन्द्रास्यमय॑ प्रशस्तोदयं, केतकीपत्रदृष्टिद्वयं मुक्तिदम् । अष्टसत्प्रातिहार्यप्रदीप्तं विभुं, तं जयानन्दनं नौमि नन्दोदधिम् ॥३॥
॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ भवभीमभयौघपर्वतं, शमवज्रेण बिभेद वेगतः । प्रकठोरतरेण भास्वता, भविकल्याणनगे घनाघनः ॥१॥ (वैतालीयम्) निखिलाघमहादृढाटवीं, विमलध्यानहुताशनव्रजः । प्रददाह सदाऽस्तु यस्य स, विमलेशस्तनिता शिवस्य नः ॥२।। (युग्मम्) शिवधाम ! सुराधिपैर्नुत !, त्वमनीशाज़ ! जिनाप्तचन्द्रमः ! । कृतपुष्पशराहितक्षय !, जय नित्यं सुतवर्मनन्दन! ॥३॥
॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ जात्यसर्वगुणवारिधि वरं, भव्यधाम विगतस्पृहं सदा । प्राप्तजन्मविरहं चतुर्दशं, स्तौम्यनन्तजिनपं मुहर्मुहः ॥१।। (रथोद्धता) रागरोषपरुषान्धकारक!, त्वं प्रगच्छ बहुदूरमाशु रे! । अत्र मे सुहृदयोदयाचले-ऽनन्तनाथतरणिः प्रकाशते ॥२॥ सिंहसेनतनयः सुरस्तुतः, श्रेयसे त्रिभुवनेश्वरः सदा । अस्त्वनन्तगुणरत्नवारिधि-भव्यदेहिसुखनन्दनः प्रभुः ॥३॥
॥ श्रीधर्मनाथ-चैत्यवन्दनम् ॥ भुवनजलजोड्योतब्रनं तपोधनधारिणं, भुवनभविनां पीडावारापहं जगदीश्वरम् । प्रवहणवरं संसाराब्धौ महागहने विभुं, शमसुखपदं भानः सूनुं स्तवीमि सदा मुदा ॥१॥ (हरिणी)