________________
१२४
श्रीविजयनन्दनसूरिविरचितः महामोहराजारिवारं कठोरं, मदोन्मत्तमातङ्गयूथं विशालम् । पराजिग्य आर्यो महाकेसरीव, स सुश्रेयसे सर्वदा स्तात् सुपार्श्वः ॥२॥ शुभध्यानवारा भवावद्यरूपं, मलं येन दूरं प्रगाढं कृतं द्राक् ।। दयाया नदीकान्तमाखण्डलेज्यं, प्रतिष्ठस्य राज्ञः स्तुवे नन्दनं तम् ॥३।।
॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ कृत्वा दूरं सहसा, रागद्वेषाम्बुदं महागहनम् । यद्विज्ञानदिनेशः, सततं भासयति कृत्स्नार्थान् ॥१॥ (आर्या) सर्वज्ञेन्दुर्जिनप-श्चन्द्राङ्काङ्कितपदद्वितय ईशः । जन्माम्भोधि तीर्वा, सुखगेहं वरपदं प्राप ॥२॥ दिव्यैश्वर्यो जयतु, ज्ञेशो धर्मदवरः सुहितदाता । चन्द्रेशस्स नितान्तं, परमानन्दनगपर्जन्यः ॥३।।
॥ श्रीसुविधिनाथ-चैत्यवन्दनम् ॥ सुपर्वनाथानतमस्तकस्थ-प्रशस्तमौलिस्थमहामणीनाम् । मरीचिसङ्घातमरं न सेहे, यत्पादयुग्मस्थनखवजश्रीः ॥१॥ (उपजाति:) यन्नामदीपो हृदयस्थितोऽर-मनादिकालागतमप्रधृष्यम् । तमो विनाशं नयति प्रसह्य, तस्येष्टदातुः सुविधेजिनस्य ॥२॥ शिवाडिम्रपारामघनोपमा सा, संसारसिन्धौ भ्रमतां जनानाम् । स्याद्वादयुक्ता वरदेशनागी-रानन्दनद्यस्तु सदोदयाय ॥३॥ (त्रिभिर्विशेषकम्)
॥ श्रीशीतलनाथ-चैत्यवन्दनम् ॥ निर्बाधमुक्तिसुखमग्नतरं जिनेन्द्रं, निःशेषसत्ततिनतं निरुपद्रवौघम् । प्राप्तप्रबोधतरणिं स्मरवारिवाह, भित्त्वा स्तुवे तमनिशं जिनशीतलेशम् ॥११॥ (वसन्ततिलका) तुभ्यं नमोः निखिलतत्त्वदिवाकराय, तुभ्यं नमः प्रहरते जनजन्मरोगम् । तुभ्यं नमः सुरपतिप्रणताय नित्यं, तुभ्यं नमोऽखिलभवौघविनाशनाय ॥२॥ निर्दोष ! शोषक! प्ररोषजलाशयस्य, नित्यं प्रतोषद ! सुधर्मवरप्रणेतः ! । त्वां नाथ ! ते रुचिरपादसरोजयुग्म, आसक्तनन्दनमधुव्रत आस्तुवेऽहम् ॥३॥
॥ श्रीश्रेयांसनाथ-चैत्यवन्दनम् ॥ शुद्धधर्मस्य दातारं, पातारं जगतां सदा । सर्वभावस्य वेत्तारं, भातारं भुवनत्रये ॥१॥ (अनुष्टुप्)