________________
१२८
श्रीविजयनन्दनसूरिविरचितः
दयाया अम्भोधिः शुचितरमनीषानिचयदः, प्रसूतो वामाङ्गाद् दलितदुरित: संयमिवरः । विराजल्लोकाग्रे सुखपदकजे हंस इव स, विभुः पार्वेशानः कृतिभततिचन्द्रो विजयताम् ॥२॥ महाजन्माम्भोधिप्रवहणवरं दोषभरदं, त्रिलोक्यम्भोजप्रोल्लसनतरणि भव्यवरदम् । जितान्तर्दुष्टौघं विततयशसं विश्वभुवने, नमामि श्रीपाश्र्वं समजनसुखाऽऽनन्दनमहम् ॥३।।
॥ श्रीवीरनाथचैत्यवन्दनम् ॥ गत्वा पापापुरीं यः प्रचुरसुखनिधि वेगतो मुक्तिमाप, दिव्याचिन्त्यस्वरूपः स्फुटगुणजलधिः कीर्त्तिकान्तिप्रकान्तः । तुल्यस्वान्तप्रवृत्तिविषमविषधरे सेवके वासवे च, सश्रीवीरस्तनोतु प्रहृतमदखलः प्राणिनां भूरिभूतिम् ॥१॥ (स्रग्धरा) सम्यग्देवेन्द्रसेव्यः स्मरवनदहनः कामहः कामदाता, संसारातङ्कवैद्यः प्रभवभयहरः सिद्धिसौख्यैकभोक्ता । प्राप्तप्रौढप्रतापः कृतवृजिनजयो जन्मपङ्काप्रवाहो, दीप्रज्योतिर्जिताऊ जयतु जिनवरो वर्द्धमानः प्रकामम् ॥२॥ नेत्रानन्दैककन्द ! स्फुरितविशदधीदातरीशप्रसिद्ध !, मिथ्यादृपेचकार्कोपम! परमशद ! प्रार्यपादाब्ज ! वीर !। सूतप्रज्ञानसूर्य ! प्रयतपदगत ! प्राज्ञपूज्य ! प्रधान !, रिष्टाम्भोजार्यमंस्त्वां जिनपदकमलालिः स्तुवे नन्दनोऽहम् ।।३।।
॥ इति चैत्यवन्दनचतुर्विंशिका ॥