________________
११४
पं. श्रीप्रतापविजयविरचितः
दुरितसन्ततिपादपकुञ्जरं, स्वमतिवैभवबोधितविष्टपम् । असमशान्तिरसैकपयोनिधि, यतिपतिं गुणरत्नजलेश्वरम् ॥१३॥ प्रचलदिन्द्रियदुर्जयवासना-विजयिनं तपसा मुदिरध्वनिम् । सकलमङ्गलशाखिपयोधरं, भवभृतामहितौघविनाशकम् ॥१४॥ निखिलदोषविवर्जितविग्रहं, कमनकुञ्जरनाशमृगेश्वरम् । सुकृतिनं वरसूरिपदाङ्कितं, भजत नेमिमबोधतमोरविम् ॥
॥ पञ्चभिः कुलकम् ॥१५।। श्रीमन्नुग्रतपोनिधे! कविकुलस्फूर्जच्छिरोलङ्कृते !, षट्त्रिंशत्प्रमितैर्गुणैर्विलसितानल्पप्रमोदाऽऽवह! । त्वद्वक्त्रेक्षणतोऽखिलं भवशतोपात्तं ममांहः शमं, सूरे ! गच्छति वर्षणाज्जलमुचो दावाश्रयाशो यथा ॥१६।।