________________
११२
गुर्णैर्गरिष्ठं प्रतिभापटिष्ठं, जाड्यार्णवालोडनहेमशैलम् । सङ्ख्यावता चर्चितपादरेणुं तं संश्रयेऽहं गुरुवृद्धिचन्द्रम् ||३०|| असमशमपयोधिर्विश्वभव्याब्जभास्वान्, जिनपतिपदपद्मे चञ्चरीकायमाणः ।
पं. श्रीप्रतापविजयविरचितः
अगणितगुणगेहं लब्धनाकीयलक्ष्मी - वितरतु मम सौख्यं वृद्धिचन्द्रो मुनीन्द्रः ॥३१॥ संपन्मन्दिरमांह्रियुग्मनखरश्रेणीमयूखैस्तमो, ध्वंसन्तं हितमङ्गिनां प्रणयिनं निष्पङ्कचेतोऽम्बुजम् । तृष्णावर्जितमानसं शुभमतिं कारुण्यरत्नाकरं तं श्रीवृद्धिगुरुं भजन्तु नितरां भव्यास्त्रिसन्ध्यं मुदा ॥३२॥
+