________________
नूतनस्तोत्रसङ्ग्रहः
जन्तूनां कुनयावटे प्रपततां सद्देशनायाः क्षणे, निर्यद्भिर्दशनांशुभिर्निकरमाकृष्याऽनयत् सत्पथम् । विद्वन्मस्तकशेखरः श्रुतवतां संपूज्यतामाप्तवान्, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥१३॥ पीयूषप्रतिमं नु यस्य वचनं मेघध्वनिस्पर्द्धनं, सर्वज्ञोक्तपथानुकूलमनघं जागीयमानं बुधैः ।। अक्षोभ्यं परवादिभिर्विजयते लोकत्रये सर्वदा, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥१४॥ ज्ञानां मानसचारुमानससरोहंसायमानोऽवनौ, यद्भाषा प्रमिताक्षरा भविमनोऽत्यन्तप्रमोदावहा । येनोद्दामतप:समाधिवशतः श्रोतोबलं निर्जितं, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥१५॥ निष्णातोऽखिलविघ्नभित् सकरुणो निर्ग्रन्थचूडामणि-विस्फूर्जद्यतिसप्तविंशतिगुणालङ्कारसम्भूषितः । चारित्रं मलशोधनं निरतिचारं पालयन् सर्वदा, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥१६।। यदीयसौजन्ययशोवलक्षतां, निरीक्ष्य चन्द्रोऽसिततामुपैति हि । गुरुः कलानां निलयो दयोदधिः, स वृद्धिचन्द्रो मतिमांस्तनोतु शम् ॥१७।। सदाऽपारं धीरं गुणगणनिधि दीप्रमहसं, क्षमागारं गीरञ्जितसकललोकं यतिपतिम् । गतारम्भासक्ति प्रकृतिसरलं शान्तवदनं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥१८॥ सदा शान्तात्मानं परमतपसं ख्यातयशसं, लसज्ज्ञानध्यानज्वलदनलदग्धाहिततृणम् । भवज्वालाजिह्वादितनिखिलसत्त्वौघशरणं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥१९॥ निरीहं निर्मोहं प्रशमजलधि निर्गतमदं, सदा चार्वाचारं विदलितकुमत्यागममदम् । अनाथानां नाथं भवभयहरं पूज्यचरितं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥२०॥ कृपाम्भोधि भव्याभिमतफलदं शुद्धचरितं, मुनि न्यायाम्भोधिं विजितमदनं नीतिनिलयम् । विशुद्धान्तवृत्तिं विदितमहिमानं शुभमति, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥२१॥ सदा मोहास्पृष्टं गतसकलकष्टं जयकर, विनष्टापद्ध्यानं वरकनककान्ति गुरुवरम् । भवस्फूर्जन्मायारहितमनसं शुभ्रयशसं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥२२॥ देशं देशमटन् हिताय भविनां सद्धर्मवारांनिधि-र्जीवातुर्भविकात्मनाममलधीनिष्णातसार्थाग्रणीः । संप्रोल्लासितजन्तुजातहृदय: श्रीवृद्धिचन्द्रो मुनि-र्धन्यो न्यायविशारदो विजयते त्रैलोक्यसौख्यप्रदः ॥२३॥ पुण्याः स्वस्तिगृहा गुणादरकराः सद्बुद्धिवृद्धिप्रदा, नानाशास्त्रविशारदाः कृतिनता विश्वप्रतिष्ठां गताः । दुर्वादीभकदम्बभीषणविधौ सक्रोधकण्ठीरवा, नन्दन्ति प्रतिभान्विताः प्रतिदिनं श्रीवृद्धिचन्द्राह्वयाः ॥२४॥ ख्यातः ख्यातसुधर्ममर्ममहिमा पुण्याङ्करक्षीरदो, वाग्ज्योत्स्नापरिनन्दितत्रिभुवनस्त्रैलोक्यचूडामणिः । ईर्यादिप्रवराष्टमातृवहने धूर्धारिणामग्रणी-भैदिन्यां जयतात् प्रमाणवचनः श्रीवृद्धिचन्द्रो गुरुः ॥२५॥ लोकोद्धारधुरन्धरं विधुतसच्चेतोमलं निर्मलं, धीमन्तं करुणापरं गुणनिधि निःशेषविद्यानिधिम् । अज्ञानान्धकृतिप्रणाशतरणि विध्वस्तदोषोदयं, वन्दे तं मदमोहलोभरहितं श्रीवृद्धिवाचंयमम् ॥२६।। विस्मेरपाथोरुहबन्धुरास्यः, प्रोल्लासयन् भव्यमनो नितान्तम् । सद्गुप्तिगुप्तो विगतप्रमादः, श्रीवृद्धिचन्द्रोऽवतु रम्यधामा ॥२७।। गभस्तिवत् तामसवृन्दभेत्ता, सौभाग्यलक्ष्मीपरिभूषितात्मा । शास्त्रेषु सर्वेषु च लब्धपारः, श्रीवृद्धिचन्द्रस्तनुतान्मुदं वः ॥२८।। निःसीममङ्गलतपोनिधिमक्षरोधं, वीतस्पृहं विजितमोहमहीन्द्रदर्पम् । भद्रङ्करं वृजिनशैलपवि पवित्रं, संस्तौमि वृद्धिविजयं विजयं विमोहम् ॥२९।।