________________
११०
पं. श्रीप्रतापविजयविरचितः
॥ १२. परमगुरुवृद्धिचन्द्र(वृद्धिविजय)-द्वात्रिंशिका ॥
पायं पायं जिनपतिवचो जातसम्यक्त्ववृद्धि-हिं ग्राहं गुणिजनगुणं मोदमानो नितान्तम् । बोधं बोधं सजलभविकान् श्लोकसङ्क्रान्तविश्वो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥१॥ दामं दामं सकलकरणं नित्यकृत्यैकनिष्ठो, ज्ञायं ज्ञायं भवविलसितं संयमं यः प्रपेदे । धारं धारं श्रमणपदवीं सर्वसम्पत्तिमाप, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥२॥ स्थायं स्थायं सदुदितपथे भव्यबोधं प्रचक्रे, जायं जायं मदनसुभटं सत्तपस्याप्रलीनः । क्षोभं क्षोभं विबुधसमिति प्राप्तकीर्तिप्रचारो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥३॥ स्नायं स्नायं प्रवचनजले धौतकालुष्यपङ्को, दायं दायं सदभिलषितं स्वर्दुतुल्योऽभवद् यः । दर्श दर्श युगमितमहीं दत्तपादप्रचारो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥४|| त्यानं त्याचं निखिलविषयांल्लब्धसिद्धान्तसारः, तापं तापं सुविविधतपस्त्यक्तनिःशेषवाञ्छः । गायं गायं जिनगुणगणं ध्वस्तरागादिवर्गो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥५|| कारं कारं सकलसुकृतं प्राप्तसौभाग्यलक्ष्मी-पिं ज्ञापं सकलसमयं पूज्यभावं प्रपन्नः । छेदं छेदं कलुषफलदान् प्रोप्तसद्धर्मबीजो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥६॥ नाशं नाशं सकलविपदाः सर्वशर्मप्रदाता, मोचं मोचं विषयममतां निर्मलध्याननिष्ठः । हाय हायं कुगतिजननी दुष्टमायां विशुद्धो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥७॥ धावं धावं भविजनमनःपापपङ्कं कृतार्थो, गाहं गाहं समयजलधिं जातरत्नत्रयाप्तिः । पालं पालं प्रवरमुनितां प्राप यो नाकलोकं, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥८॥ आपत्त्रासनकर्मठो मुनिपतिर्जाड्यापहारक्षमो, यस्यांऽघ्यम्बुजयामले विजयते सौभाग्यलक्ष्मीः सदा । गाम्भीर्यादिर्गुणैः सदा विलसितो मोहेभपञ्चाननः, संसारार्तिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥९॥ कान्त्या येन जितः प्रचण्डकिरणः शान्त्या तथा चन्द्रमाः, संवेगादिगुणान्वितो विपुलधीः सम्यक्त्वविस्फूर्जितः । शास्त्राम्भोनिधिराप्तमौलिमहितः क्रोधादिशत्रुज्झितः, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥१०॥ भव्यात्मभ्रमरा भ्रमन्ति नितरां यत्पादपद्मद्वये, सूयन्ते मनसोऽभिलाषविषया यत्सेवया प्राणिनाम् । लोके यस्य बुधा मुदा गुणगणान् गायन्ति नित्यं प्रगे, संसारातिहर: स वृद्धिविजयो जीयान्मुनीनां पतिः ॥११॥ क्रोधाद्यारिविघातकोऽपि सदयः सौभाग्यलक्ष्मीधरः, सम्यग्बोधिकरोऽविचिन्त्यमहिमा विश्वोपकारोद्यतः । भव्यानामभिवाञ्छितार्थपटलत्यागोर्ध्वलोकद्रुमः, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥१२॥